Enter your Email Address to subscribe to our newsletters

वैचारिक रूपेण समृद्ध कार्यकर्तारःएव संगठनम् उन्नेतुमर्हन्ति: पंकज चौधरी
लखनऊ, 25 अप्रैलमासः (हि.स.)। ‘पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाभियानेन भारतीयजनतापार्टी कार्यकर्तृषु नेतृत्वक्षमता सेवाभावश्च विकास्यते। पार्टी बूथस्तरात् आरभ्य मण्डल, जिला, क्षेत्र तथा प्रदेशस्तरपर्यन्तं पदाधिकाऱिणां प्रशिक्षणवर्गान् आयोजयितुं योजना कृतवती। बूथ तथा मण्डलस्तरयोः प्रशिक्षणवर्गाः सम्पन्नाः सन्ति। अधुना जिला स्तरस्य प्रशिक्षणवर्गाः आयोजयिष्यन्ते। अस्य सम्बन्धे शनिवासरे राजधानी लखनऊस्थिते इन्दिरागांधीप्रतिष्ठाने सभा सम्पन्ना। अस्यां सभायां भारतीयजनतापार्टीप्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमंत्री पंकजचौधरी, प्रदेशमहामन्त्री (संगठन) धर्मपालसिंहः तथा प्रशिक्षणमहाभियानस्य जोनलसहसंयोजकः राजूभण्डारी च उपस्थितान् पदाधिकाऱिणः मार्गदर्शितवन्तः।
प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमंत्री पंकजचौधरी स्वसम्बोधने उक्तवान् यत् ‘पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाभियान 2026’ भारतीयजनतापार्टीस्य संगठनात्मकशक्तिं अधिकं सुदृढं कर्तुं महत्त्वपूर्णः अभियानः अस्ति। सः अवदत् यत् प्रशिक्षणमेव सा धुरी अस्ति या कार्यकर्तारं राष्ट्रनिर्माणाय सज्जं करोति। एकः सशक्तः, जागरूकः, वैचारिकरूपेण समृद्धः कार्यकर्ता एव संगठनं उच्चतां नयति। सः अपि अवदत् यत् प्रशिक्षणवर्गैः कार्यकर्तृभ्यः संगठनात्मककार्यशैल्याः ज्ञानं लभ्यते, अपि च राष्ट्रहिते समर्पणभावः सेवाभावश्च विकसितः भवति। चौधरी अवदत् यत् उत्तरप्रदेशे मण्डलस्तरे प्रशिक्षणवर्गाणां सफलआयोजनं संगठनस्य सक्रियतायाः कार्यकर्तॄणां परिश्रमस्य च प्रमाणम् अस्ति। अधुना आगामिनः जिलास्तरीयप्रशिक्षणवर्गाः अपि तेनैव उत्साहेन गुणवत्तया च सम्पन्नाः करणीयाः इति सर्वेषां दायित्वम् अस्ति। सः सर्वान् पदाधिकाऱिणः अपेक्षितवान् यत् ते प्रशिक्षणमहाभियाने प्रत्येकं कार्यकर्तारं संयोजयन्तु, येन संगठनस्य मूलानि अधिकं दृढानि भवन्ति।
प्रदेशमहामन्त्री (संगठन) धर्मपालसिंहः अवदत् यत् ‘पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाभियान 2026’ इत्यस्य उद्देश्यम् अस्ति यत् प्रत्येकः कार्यकर्ता संगठनस्य विचारधारां, कार्यपद्धतिं, दायित्वानि च प्रति सजगः सक्षमश्च भवेत्। सः अवदत् यत् प्रशिक्षणं केवलं ज्ञानार्जनस्य माध्यमं न, अपितु कार्यकर्तॄणां व्यक्तित्वविकासस्य नेतृत्वक्षमताविकासस्य च सशक्तं मंचम् अस्ति। मण्डलस्तरे आयोजितानां प्रशिक्षणवर्गाणां सफलता एतस्य प्रमाणम् अस्ति यत् कार्यकर्तारः शिक्षितुं स्वस्योन्नतिं कर्तुं च तत्पराः सन्ति। सः अवदत् यत् संगठनस्य शक्ति तस्य एकता प्रशिक्षितेषु कार्यकर्तृषु निहिता अस्ति, अतः सर्वे दायित्वधारिणः समन्वयेन अनुशासनेन च कार्यं कुर्वन्तु। सः कार्यकर्तॄन् आहूतवान् यत् ते प्रशिक्षणं आत्मसात् कृत्वा संगठनस्य विस्ताराय समाजसेवायां च सक्रियां भूमिकां निर्वहन्तु।
अस्यां सभायां प्रदेशपदाधिकारी, क्षेत्रीयप्रभारी, क्षेत्रीयाध्यक्षाः, मोर्चाप्रदेशाध्यक्षाः, जिलाध्यक्षाः, जिलाप्रभारी, जिला प्रशिक्षणवर्गप्रभारी, क्षेत्रीयप्रशिक्षणटोली, जिलासंयोजकाः, सहसंयोजकाः प्रशिक्षणमहाभियानस्य, जिला प्रदर्शनीप्रमुखाः तथा जिला आईटी सोशलमीडिया कार्ये नियोजिताः कार्यकर्तारः उपस्थिताः आसन्।
हिन्दुस्थान समाचार