Enter your Email Address to subscribe to our newsletters

पटना, 25 अप्रैलमासः (हि.स.)। सम्राट चौधरी बिहारस्य मुख्यमन्त्री भागलपुर जनपदे नवगछिया क्षेत्रस्य रंगरा प्रखंड अन्तर्गत झल्लूदास टोला स्थिते गङ्गाघाटे जातस्य दुर्घटनायाः विषये गाढां शोकसंवेदनां व्यक्तवान्। गंगा नदी स्नानकाले एकस्मिन्नेव कुले त्रयाणां जनानां निमज्जनेन निधनं जातम्, येन समग्रे क्षेत्रे शोकमयः वातावरणः जातः।
मुख्यमन्त्री उक्तवान् यत् एषा घटना अत्यन्तं दुःखदा हृदयविदारका च अस्ति। सः अवदत् यत् एतादृशाः घटनाः समग्रं समाजं कम्पयन्ति, पीडितपरिवारस्य दुःखं च शब्दैः व्यक्तुं न शक्यते।सः आपदा प्रबंधन विभागाय निर्देशं दत्तवान् यत् मृतानां आश्रितेभ्यः शीघ्रं ४-४ लक्ष-रूप्यकाणां अनुग्रह-राशिः प्रदीयताम्, येन अस्मिन् कठिनकाले परिवारस्य आर्थिकसहायता भवेत्।सः ईश्वरं प्रति प्रार्थितवान् यत् शोकाकुल-परिजनेभ्यः अस्य दुःखस्य सहनशक्तिः प्रदीयताम्, दिवङ्गतानां आत्मनां च शान्तिः लभ्यताम्।घटनानन्तरं स्थानिक-प्रशासनं तथा आपदा-प्रबन्धन-विभागस्य दलं स्थितेः अनुगमनं कुर्वन्ति। प्रशासनस्य पक्षतः आवश्यक-सहायतायाः प्रदाने प्रक्रिया आरब्धा अस्ति।अयं दुःखदः प्रसङ्गः पुनः नदी-घाटेषु सुरक्षा-व्यवस्थायाः सावधानतायाः च आवश्यकता प्रकाशयति, विशेषतः ग्रीष्मकाले यदा बहवः जनाः स्नानार्थं नदी-घाटान् गच्छन्ति।------------
हिन्दुस्थान समाचार