Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ अप्रैलमास: (हि.स.)। देहली-नगरस्य पूर्व-मुख्यमन्त्री तथा आम-आदमी-पक्षस्य (AAP) संयोजकस्य अरविन्द-केजरीवालस्य नूतन-भवनं प्रति भारतीय-जनता-पक्षेण तीक्ष्णः प्रहारः कृतः। भाजपया उक्तं यत् यथा अरविन्द-केजरीवालस्य जीवन-शैली अत्यन्तम् आलीशान इति अस्ति, ततः दृष्ट्वा तस्य दलस्य नाम परिवर्त्य “आलीशान-आदमी-पार्टी” इति कर्तव्यम्।
शनिवासरे भाजपाया मुख्यालये आयोजितायां पत्रकार-वार्तायां देहली-मन्त्री तथा नवदेहली-निर्वाचन-क्षेत्रात् विधायकः प्रवेश-वर्मा उक्तवान्— “अन्ना-आन्दोलनस्य आश्रयं गृहीत्वा, महात्मा-गान्धी, शहीद-भगतसिंह तथा बाबा-साहेब-अम्बेडकरस्य चित्राणां उपयोगं कृत्वा, सामान्य-जनस्य शिरस्कं धृत्वा, एक-रूप्यक-स्टाम्प-पत्रे प्रतिज्ञां दत्त्वा यत् सः सर्वकारी-गृहं न गृह्णीयात्, न च वाहनं स्वीकरिष्यति— सः स्वबालकानां मिथ्या-शपथं कृतवान्।”
सः केजरीवालस्य नूतन-निवासस्य चित्राणि प्रकाश्य उक्तवान्— “केजरीवालेन पूर्वं देहल्यां ‘शीशमहलः’ निर्मितः, एतत् सर्वे जानन्ति। सः शीशमहलः तस्मिन् काले निर्मितः यदा देहल्यां कोविड-तरङ्गः आसीत्। देहली-जनता कोविड-औषधीन् याचमाना आसीत्, किन्तु तस्मिन् काले अपि एकदिवसमपि शीशमहल-निर्माण-कार्यं न विरतम्।”
सः अवदत्— “देहल्याः पराजयानन्तरं तस्य पंजाब-गमनात् भगवंत-मानस्य कठिनताः वर्धिताः, यतः तस्य समीपे यानि विशालानि सर्वकारी-गृहाणि सन्ति, तेषु एकं केजरीवालः अधिगृहीतवान्, द्वितीयं देहल्याः पूर्व-स्वास्थ्य-मन्त्री सतेंद्र-जैनः, तृतीयं राज्यसभा-सांसदः संजय-सिंहः, अन्यच्च एकं मनीष-सिसोदिया अधिगृहीतवन्तः।”
प्रवेश-वर्मा पुनः उक्तवान्— “द्वितीयः अपि शीशमहलः निर्मितः। अस्य भवनस्य चित्राणि यदा प्रकाशं प्राप्तानि, तदा ज्ञातं यत् ‘सामायतया वत्स्यामि’ इति वदन् पुरुषः कथं अत्यन्तम् आलीशान-प्रकारेण वसति। सर्वाणि तानि चित्राणि साक्ष्यरूपेण सन्ति, यैः ज्ञायते यत् केजरीवालेन स्वस्य नूतन-गृहे कथं कार्यं कृतम्।”
सः अवदत्— “स्वतन्त्र-भारतस्य इतिहासे अरविन्द-केजरीवालः प्रथमः पुरुषः अस्ति यस्य इच्छा: न समाप्ताः भवन्ति। यदि कश्चन अतीव-इच्छुक: व्यक्तिः जातः अस्ति, तस्य नाम अरविन्द-केजरीवालः। तस्य दलस्य नाम ‘आम-आदमी-पार्टी’ न, अपि तु ‘आलीशान-आदमी-पार्टी’ भवितव्यम्। समान्यस्य आवरणं धृत्वा लुण्ठन-व्यापारः कृतः। द्वि-कक्ष-गृहस्य वचनं दत्तम्, किन्तु शीशमहलः निर्मितः।”
आम-आदमी-पक्षस्य सप्त-सांसदानां भाजपायां विलयस्य विषये प्रश्ने सः उक्तवान्— “केजरीवालेन ऐश्वर्य-जीवनस्य कृते जनविश्वासस्य सार्वजनिकं हननं कृतम्। एतदेव कारणं यत् तस्य भ्रष्टाचारात् क्लेशं अनुभूय तस्य ‘ईमानदार’ सांसदाः नेतारश्च दलं त्यक्तवन्तः। आत्मसम्मानयुक्तः कश्चन अपि पुरुषः अस्मिन् दले दीर्घकालं न तिष्ठति। स्वतन्त्र-भारते सः सर्वाधिक-व्ययी व्यक्तिः अस्ति।”
उल्लेखनीयम् अस्ति यत् २४ अप्रैल-दिने देहल्याः पूर्व-मुख्यमन्त्री अरविन्द-केजरीवालः लोधी-स्टेट-क्षेत्रे स्थिते नूतने टाइप-VII सर्वकारी-भवने निवासं परिवर्तितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता