छत्तीसगढ़मंत्रिमंडलस्य महत्वपूर्णोपवेशनं 29 अप्रैल दिनांके
रायपुरम्, 25 अप्रैलमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साय अध्यक्षतायां राज्यस्य मन्त्रिपरिषदः अग्रिमा महत्वपूर्णा सभा बुधवासरे २९ एप्रिल २०२६ दिनाङ्के आहूता अस्ति। एषा सभा प्रातः ११:३० वादने महानदी भवन (नवरायपुरअटलनगरस्थिते मन्त्रा
साय कैबिनेट की बैठक,फाइल फोटो


रायपुरम्, 25 अप्रैलमासः (हि.स.)।

छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साय अध्यक्षतायां राज्यस्य मन्त्रिपरिषदः अग्रिमा महत्वपूर्णा सभा बुधवासरे २९ एप्रिल २०२६ दिनाङ्के आहूता अस्ति। एषा सभा प्रातः ११:३० वादने महानदी भवन (नवरायपुरअटलनगरस्थिते मन्त्रालये) आयोजिता भविष्यति।

अस्यां सभायां राज्यस्य विकासकार्याणि, नवीनयोजनानां प्रगतिः तथा जनहितसम्बद्धाः अनेकाः संवेदनशीलविषयाः चर्चायाः विषयाः भविष्यन्ति। मुख्यमन्त्रिणः सचिवालयेन प्रकाशितसूचनानुसारं सर्वेषां विभागीयमन्त्रिणां उपस्थितिः अनिवार्या निर्दिष्टा अस्ति।

अस्यां सभायां आगामिनः खरीफऋतुकालस्य सज्जताः, राजस्वविभागस्य लंबितप्रकरणानि तथा विविधसरकारीनियुक्तयः सम्बन्धिनः महत्वपूर्णप्रस्तावाः अनुमोदिताः भवितुं शक्नुवन्ति।

महानदीभवने आयोजितायां अस्यां चर्चायां विभागैः प्रस्तुतानां नवीनाध्यादेशानां नीतिसंशोधनानां च विषये अपि विचारः क्रियते।

पूर्वसभायां सर्वकारेण समाननागरिकसंहितायाः निर्माणस्य तैयारी, महिलानां नाम्नि भूमिपञ्जीकरणे ५० प्रतिशतपर्यन्तं शुल्कराहतिः तथा सैनिकेभ्यः स्टाम्पशुल्के रियायत् इत्यादयः महत्वपूर्णनिर्णयाः गृहीताः आसन्।

हिन्दुस्थान समाचार