मुख्यमंत्री सायोऽद्य हज यात्रिभ्यो हजयात्रासामग्री वितरिष्यते
रायपुरम्, 25 अप्रैलमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायोऽद्य हजयात्रिकेभ्यः हजकिट् वितरणं करिष्यति। सः अपराह्णे १ वादने अटल बिहारी वाजपेयी सभागृह (मेडिकलकॉलेजस्थिते) आगमिष्यति। तत्र राज्यस्तरीयहजकिट् वितरणसम्मानसमारोहे सहभागित्वं करिष्यति। अयं
छत्तीसगढ़ के मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 25 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेव सायोऽद्य हजयात्रिकेभ्यः हजकिट् वितरणं करिष्यति। सः अपराह्णे १ वादने अटल बिहारी वाजपेयी सभागृह (मेडिकलकॉलेजस्थिते) आगमिष्यति। तत्र राज्यस्तरीयहजकिट् वितरणसम्मानसमारोहे सहभागित्वं करिष्यति। अयं कार्यक्रमः २०२६ वर्षस्य हजयात्रां गच्छतां यात्रिकाणां सुविधायै सम्मानाय च आयोज्यते।

अस्य किट् मध्ये सामान्यतया यात्रिकाणां आवश्यकतासम्बद्धानि वस्तूनि यथा बैग्, तौलिकाः, आवश्यकौषधानि, छत्रं तथा यात्राकाले उपयोगिन्यः अन्याः आवश्यकवस्तवः समाविष्टाः भवन्ति।

छत्तीसगढप्रदेशात् अस्मिन् वर्षे प्रायः ८१५ हजयात्रिकाः पवित्रयात्रायां प्रस्थिताः भविष्यन्ति। एतेषां प्रस्थानकार्यक्रमः ३० एप्रिलदिनाङ्कात् आरभ्यते, यत्र ते नागपुर मार्गेण जेद्दा नगरं प्रति विमानयानं करिष्यन्ति। अस्मिन् वर्षे चयनितेषु ८१५ यात्रिकेषु प्रायः ३९८ महिलाः अपि सन्ति।

कार्यक्रमानन्तरं सः अपराह्णे २ वादने सभागृहात् प्रस्थितः भविष्यति तथा २:१० वादने पुनः मुख्यमन्त्रिनिवासं प्रतिनिवर्तिष्यति।

हिन्दुस्थान समाचार