Enter your Email Address to subscribe to our newsletters

पटना, 25 अप्रैलमासः (हि.स.)।बिहारराज्ये नूतन-सर्वकारस्य गठनानन्तरं काङ्ग्रेस-शिविरे हलचलः स्पष्टतया दृश्यते। वास्तवतः शनिवासरे काङ्ग्रेस-दलस्य एमएलसी समीर कुमार सिंह महोदयः मुख्यमंत्री सम्राट चौधरी महोदयेन सह समागमं कृतवान्। सः मुख्यमंत्री-आवासे तेन सह मिलितवान्, यस्य छायाचित्रम् अपि प्रकाशं प्राप्तम्।
मुख्यमंत्री सम्राट चौधरी महोदयेन सह समीर कुमार सिंहस्य एषः समागमः राज्यस्य परिवर्तमान-राजनीतिक-परिस्थितीनां संकेत-रूपेण दृष्टुं शक्यते। यतः अस्य पूर्वं काङ्ग्रेस-दलस्य विधायकः सुरेन्द्र कुशवाहा महोदयः अपि मुख्यमंत्रीन सह मिलितवान्, येन काङ्ग्रेस-शिविरे हलचलः अधिका अभवत्।
अद्यतन-राज्यसभा-निर्वाचनस्य समये अपि काङ्ग्रेस-दलस्य केचन विधायकाः तथा राजद-दलस्य एकः विधायकः मतदाने भागं न स्वीकृतवन्तः। अस्य कारणेन राजद-दलस्य अभ्यर्थी पराजयं प्राप्तवान्।
अस्मात् घटनाक्रमात् परं विपक्षी-एकतायाः विषये प्रश्नाः उद्भूताः, अधुना च मुख्यमंत्रिणा सह काङ्ग्रेस-नेतॄणां निरन्तर-समागमाः नूतन-राजनीतिक-समीकरणानां दिशि संकेतं ददति। अस्मिन् मध्ये मन्त्रिमण्डल-विस्तारस्य विषये चर्चाः अपि तीव्राः भवन्ति।
शनिवासरे प्रातःकाले मुख्यमंत्री सम्राट चौधरी “१ अणे मार्ग” इति स्थलं गत्वा पूर्व- मुख्यमंत्रिणा नीतीश कुमारेण सह अपि समागमं कृतवान्।
---------------
हिन्दुस्थान समाचार