मेरठजिल्लायां हॉकीविचक्षणस्य मेजर ध्यानचंदस्य नाम्ना निर्मीयते खेलविश्वविद्यालयः
युवभ्योऽधुना क्रीडाजगति उद्घटिष्यते सफलतायाःनूतनः आकाशः लखनऊ, 25 अप्रैलमासः (हि.स.)।उत्तरप्रदेशे क्रीडानां विकासाय युवानां च नूतनदिशा प्रदातुं मेजर ध्यानचंद खेल विश्वविद्यालय इति विश्वविद्यालयः मेरठनगरस्य सरधनाक्षेत्रे निर्मीयते। एषः उत्तरप्रदेशस्
मेजर ध्यानचंद स्पोर्ट विश्वविद्यालय


युवभ्योऽधुना क्रीडाजगति उद्घटिष्यते सफलतायाःनूतनः आकाशः

लखनऊ, 25 अप्रैलमासः (हि.स.)।उत्तरप्रदेशे क्रीडानां विकासाय युवानां च नूतनदिशा प्रदातुं मेजर ध्यानचंद खेल विश्वविद्यालय इति विश्वविद्यालयः मेरठनगरस्य सरधनाक्षेत्रे निर्मीयते। एषः उत्तरप्रदेशस्य प्रथमः क्रीडाविश्वविद्यालयः अस्ति। अयं विश्वविद्यालयः न केवलं उत्तरप्रदेशस्य अपि तु सम्पूर्णदेशस्य विभिन्नराज्यानां क्रीडकानां कृते अपि महत्त्वपूर्णपरिवर्तनकारकः भविष्यति। अयं क्रीडाशिक्षा प्रशिक्षण अनुसंधानक्षेत्रेषु नूतनमानकं स्थापयितुं अग्रे गच्छति। वर्तमानकाले विश्वविद्यालयस्य निर्माणकार्यं प्रायः 85 प्रतिशताधिकं सम्पन्नम् अस्ति।

ईपीसी मोड् पद्धत्या निर्मीयमानः अयं विश्वविद्यालयः मेरठजिले प्रायः 36.9813 हेक्टेयर (लगभग 91.38 एकड़) क्षेत्रे विस्तृतः अस्ति। अस्य निर्माणे प्रायः 369.11 कोटिरूप्यकाणां व्ययः भवति। अस्य नोडलसंस्था लोकनिर्माणविभागः अस्ति। तेन अद्यपर्यन्तं प्रायः 247.01 कोटिरूप्यकाणि व्ययितानि सन्ति।

योगी आदित्यनाथ महोदयेन अस्य परियोजनायाः समयबद्धसमापनाय निर्देशाः दत्ताः। तेन 31 मई पर्यन्तं निर्माणकार्यसमापनस्य लक्ष्यं निर्धारितम्। अतः निर्माणकार्ये तीव्रता आनीता अस्ति, अधुना मुख्यनिर्माणस्य अनन्तरं परिष्कारकार्यं शीघ्रतया प्रचलति। निर्धारितकालसीमायां परियोजनां समाप्तुं सर्वे प्रयासाः क्रियन्ते। मेरठजिलस्य राष्ट्रराजधानीसमीपस्थितत्वात् हरियाणा, पंजाब, उत्तराखण्ड इत्यादिभ्यः राज्येभ्यः अपि क्रीडकाः लाभं प्राप्स्यन्ति।

अत्र पाठ्यक्रमेषु फिजिकल एजूकेशन, हेल्थ तथा एप्लाइड स्पोर्ट्स साइंसेज, स्पोर्ट्स मैनेजमेंट, स्पोर्ट्स कोचिंग, स्पोर्ट्स जर्नलिज्म, एडवेन्चर स्पोर्ट्स इत्यादयः विषयाः समाविष्टाः भविष्यन्ति। एतेषु विषयेषु स्नातक, परास्नातक, डिप्लोमा, प्रमाणपत्र तथा पीएचडीपर्यन्तं अध्ययनसुविधा भविष्यति। अस्य विश्वविद्यालयस्य स्थापना उत्तरप्रदेशे क्रीडासंस्कृतेः उत्कर्षस्य च उद्देश्यम् अस्ति।

अयं विश्वविद्यालयः आधुनिकैः अत्याधुनिकैः च क्रीडासुविधाभिः युक्तः भविष्यति। अत्र सिंथेटिक ट्रैक, हॉकीक्रीडाङ्गणम्, फुटबॉलमैदानम्, बास्केटबॉल, वॉलीबॉल, हैंडबॉल, कबड्डीक्रीडाङ्गणानि भविष्यन्ति। अपि च लॉनटेनिसकोर्ट्, व्यायामशाला, स्विमिंगपूल्, बहुउद्देशीयमण्डपः, स्पोर्ट्स साइंस प्रयोगशाला च निर्मास्यन्ते। अत्र 22 ओलम्पिकक्रीडाः संचालिताः भविष्यन्ति। अस्मिन् वर्षे एथलेटिक्स, फुटबॉल, हॉकी, टेनिस, टेबलटेनिस, बैडमिन्टन, भारोत्तोलनम्, बॉक्सिंग, कुश्ती, योग, ताइक्वांडो, जूडो, तैरनम्, कबड्डी च आरभ्यन्ते। आगामीवर्षे शूटिंग, आर्चरी, वॉलीबॉल, बास्केटबॉल, वुशु, अश्वारोहणं जलक्रीडाश्च समावेश्यन्ते।

कुलपतिः मेजरजनरल् दीपअहलावत उक्तवान् यत् अयं विश्वविद्यालयः क्रीडानां समग्रविकासाय पूर्णतया प्रतिबद्धः अस्ति। अस्य उद्देश्यं विश्वस्तरीयप्रशिक्षणसुविधाभिः क्रीडाविज्ञानानुसन्धानस्य माध्यमेन च क्रीडाशिक्षायां नूतनमानकस्थापनम् अस्ति।

हिन्दुस्थान समाचार