Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ अप्रैलमासः (हि.स.)।नीति-आयोगस्य नवनियुक्तः उपाध्यक्षः अशोक-कुमार-लाहिड़ी शनिवासरे प्रधानमन्त्रिणा नरेन्द्र-मोदिना सह शिष्टाचार-साक्षात्कारं कृतवान्।
प्रधानमन्त्री नरेन्द्रमोदी सामाजिक-माध्यमेषु लाहिड़ी-साक्षात्कारस्य चित्रं सहभागं कृत्वा तस्मै अभिनन्दनं प्रेषितवान्। सः उक्तवान् यत् अर्थशास्त्रे सार्वजनिक-नीतौ च तस्य व्यापकः अनुभवः भारतस्य सुधार-प्रक्रियायाः तथा “विकसित-भारतस्य” लक्ष्यस्य सुदृढीकरणे सहायकः भविष्यति। प्रधानमन्त्रिणा विश्वासः व्यक्तः यत् लाहिड़ी-प्रयासाः देशे नीति-निर्माणं अधिकं गतिशीलं करिष्यन्ति।
सर्वकारी-अधिसूचनानुसारं वरिष्ठ-अर्थशास्त्री लाहिड़ीः शुक्रवार-दिने नीति-आयोगस्य उपाध्यक्षपदे नियुक्तः। तेन सह आयोगस्य नूतन-पूर्णकालिक-दलस्य अपि घोषणा कृता। अस्मिन् दल-समूहः राजीव-गौबा, प्रो.के.वी.राजू, प्रो.गोवर्धन-दासः, प्रो.अभय-करंदीकरः तथा डॉ.एम.श्रीनिवासः इति सदस्याः पूर्णकालिक-सदस्यरूपेण सम्मिलिताः सन्ति।
प्रधानमन्त्रिणा सर्वेभ्यः नवनियुक्तेभ्यः सदस्येभ्यः शुभकामनाः दत्ताः। सः उक्तवान् यत् नीति-आयोगः भारतस्य नीति-निर्माण-संरचनायाः एकः महत्त्वपूर्णः स्तम्भः जातः अस्ति, यः सहकारी-संघवादस्य, सुधार-प्रक्रियायाः तथा “ईज-ऑफ-लिविंग” इत्यस्य संवर्धने महतीं भूमिकां निर्वहति।
अस्मिन् एव काले प्रो.गोवर्धन-दासः सामाजिक-माध्यमेषु स्वनियुक्त्यै कृतज्ञतां प्रकट्य तत् स्वजीवनस्य महत्त्वपूर्णं क्षणं इति उक्तवान्। सः उक्तवान् यत् साधारण-कृषक-परिवारात् आगतः अपि सः देशसेवायाः अवसरं प्राप्तवान्, यत् तस्य कृते गौरवस्य विषयः अस्ति।
प्रधानमन्त्री मोदी अपि तस्य सहभागं प्रति प्रतिक्रियां दत्वा तस्य योगदानस्य प्रशंसां कृतवान् तथा उक्तवान् यत् सार्वजनिक-स्वास्थ्ये, विज्ञान-क्षेत्रे तथा नवाचार-क्षेत्रे तस्य कार्यं देशाय प्रेरणादायकं अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता