नीति-आयोगस्य नवनियुक्तः उपाध्यक्षः अशोक-लाहिड़ी प्रधानमन्त्रिणा सह साक्षात्कारं कृतवान्
नवदिल्ली, २५ अप्रैलमास: (हि.स.)। नीति-आयोगस्य नवनियुक्तः उपाध्यक्षः अशोक-कुमार-लाहिड़ी शनिवासरे प्रधानमन्त्रिणा नरेन्द्र-मोदिना सह शिष्टाचार-मेलनं कृतवान्। सर्वकारी-अधिसूचनानुसारं वरिष्ठ-अर्थशास्त्री अशोक-लाहिड़ी शुक्रवासरे नीति-आयोगस्य उपाध्यक्षप
नीति आयोग के नवनियुक्त उपाध्यक्ष अशोक कुमार लाहिड़ी और प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, २५ अप्रैलमास: (हि.स.)। नीति-आयोगस्य नवनियुक्तः उपाध्यक्षः अशोक-कुमार-लाहिड़ी शनिवासरे प्रधानमन्त्रिणा नरेन्द्र-मोदिना सह शिष्टाचार-मेलनं कृतवान्।

सर्वकारी-अधिसूचनानुसारं वरिष्ठ-अर्थशास्त्री अशोक-लाहिड़ी शुक्रवासरे नीति-आयोगस्य उपाध्यक्षपदे नियुक्तः अभवत्। तस्य नियुक्त्या सह आयोगस्य पूर्णकालिक-सदस्यानां नूतनं दलम् अपि घोषितम्।

नव-दलमध्ये राजीव-गौबा, प्रो.के.वी.राजू, प्रो.गोबर्धन-दास:, प्रो.अभय-करंदीकर: तथा डॉ.एम.श्रीनिवास: इत्येते पूर्णकालिक-सदस्यत्वेन नियुक्ताः सन्ति। एताः सर्वाः नियुक्तयः पदग्रहण-तिथ्याः आरभ्य प्रभाविण्यः भविष्यन्ति तथा अग्रिम-आदेशपर्यन्तं प्रवर्तिष्यन्ते।

नीति-आयोगे एताः नूतन-नियुक्तयः सर्वकारस्य नीति-निर्माण-प्रक्रियां अधिक-सुदृढां कर्तुं उद्दिश्य कृताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता