Enter your Email Address to subscribe to our newsletters

काठमांडूः, 25 अप्रैलमासः (हि.स.)।
नेपालदेशस्य विदेशमन्त्री शिशिर खनाल उक्तवान् यत् प्रधानमन्त्रिणः आरभ्य सर्वे मन्त्रिणः तथा शासकीयकर्मचारिणः कूटनीतिकाचारसंहितायाः अनिवार्यतया पालनं कुर्वन्तु।
कूटनीतिकाचारसंहितायाः पालनस्य महत्त्वं निर्दिशन् खनाल महोदयः अवदत् यत् वर्तमानसरकारः विदेशसम्बन्धानां कूटनीतिकव्यवहारस्य च सुव्यवस्थापनाय सक्रियतया कार्यं करोति। राष्ट्रिय स्वतंत्र पार्टी इत्यस्य कार्यक्रमे सः अवदत् यत् कूटनीतिकाचारनियमाः प्रधानमन्त्रिणः, मन्त्रिणः तथा सर्वेषां सार्वजनिकपदधारिणां प्रति समानरूपेण प्रवर्तयितुं सरकारः प्रयतते।
खनालोऽवदत् यत् प्रधानमन्त्रिणः मन्त्रिणः सहितं सर्वेषां कृते कूटनीतिकाचारसंहितायाः समानप्रयोगाय प्रशिक्षणव्यवस्था अपि कृता अस्ति। सः पुनः बलं दत्त्वा उक्तवान् यत् कूटनीतिकनियमाः सर्वैः अनिवार्यतया पालनीयाः।
----------
हिन्दुस्थान समाचार