Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, २५ अप्रैलमासः (हि.स.)। योगी-सर्वकारस्य शिक्षा-सुधार-नीतिनां प्रभावः अधुना सर्वकारी-विद्यालयानां परीक्षाफलेषु स्पष्टतया दृश्यते। उत्तरप्रदेश-माध्यमिक-शिक्षा-परिषदः (यूपी-बोर्ड) घोषितेषु परिणामेषु समाज-कल्याण-विभागेन सञ्चालिताः जयप्रकाश-नारायण-सर्वोदय-विद्यालयाः उत्कृष्टं प्रदर्शनं कृत्वा प्रदेशे नूतनं संदेशं दत्तवन्तः।सर्वोदय-विद्यालयानां हाईस्कूल-परीक्षायां ९९.१९ प्रतिशतं तथा इंटरमीडिएट-परीक्षायां ९९.०३ प्रतिशतं परिणामः अभिलेखितः। एतेन सिद्धं यत् गुणवत्तापूर्ण-शिक्षा, उत्तम-संसाधनानि, अनुशासितं वातावरणं च प्राप्य छात्राः सर्वत्र उत्कृष्टं प्रदर्शनं कर्तुं समर्थाः भवन्ति।
छात्राभिः प्रदेशस्य गौरव-वृद्धिः
गाजियाबाद-जनपदस्य जयप्रकाश-नारायण-सर्वोदय-बालिका-विद्यालयस्य निडौरी-स्थानस्य छात्राभिः विशेष-सफलता प्राप्ता। इंटरमीडिएट-विज्ञान-वर्गे अञ्जली-पुण्डीर ८८.२० प्रतिशताङ्कैः चतुर्थं स्थानं प्राप्तवती, अंशिका च ८७.४० प्रतिशताङ्कैः षष्ठं स्थानं प्राप्तवती।
हाईस्कूल-परीक्षायां उत्कृष्ट-प्रदर्शनम्शैक्षणिक-वर्षे २०२५–२६ मध्ये हाईस्कूल-परीक्षायां २४५७ छात्राः सम्मिलिताः, येषु २४३७ छात्राः उत्तीर्णाः अभवन्। प्रमुख-मेधाविनः—उजाला-निषाद (९४.३३%), अनुष्का-त्रिपाठी (९३.१६%), पवन-कुमार (९२.६७%), आदर्श-कुमार (९२.६६%), सुनील-कुमार: (९२.५०%)—उल्लेखनीयम् प्रदर्शनं कृतवन्तः।
इंटरमीडिएट-परीक्षायाम् अपि उत्कृष्टताविज्ञान-वर्गे १०५८ विद्यार्थिनः मध्ये १०४६ उत्तीर्णाः, कला-वर्गे ८०१ मध्ये ७९५ सफलाः अभवन्। प्रमुखाः छात्राः—राधिका (८६.८०%), सुमन-भारती (८६.२०%), शालू (८५.२०%), कोमल-गायत्री (८४.८०%), अञ्जली-पुण्डीर (८८.२०%), दीपक-सिंह: (८८.००%), अंशिका (८७.४०%) इत्यादयः।
सर्वकारी-विद्यालयानां परिवर्तिता स्थितिअधिकारिभिः उक्तं यत् योगी-सर्वकारेण स्मार्ट-कक्षाः, प्रशिक्षित-शिक्षकाः, पुस्तक-सुविधा, आधुनिक-प्रयोगशालाः, सुरक्षित-वातावरणं च प्रदत्तम्। एतेषां प्रयासानां फलरूपेण सर्वोदय-विद्यालयाः अद्य नूतनं परिचयं प्राप्तवन्तः, छात्राश्च प्रदेशस्तरे नूतन-कीर्तिमानानि स्थापितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता