Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, २५ अप्रैलमासः (हि.स.)। पूर्व-मुख्यमन्त्री तथा पूर्व-केंद्रीय-मन्त्री शान्त-कुमारः उक्तवान् यत् भारत-देशे यस्य भावेन दल-परिवर्तन-अधिनियमः (दलबदल-कानून) निर्मितः, सः स्वस्य उद्देश्यं पूर्णतया साधयितुं न सफलः अभवत्। सः वर्तमान-अधिनियमस्य न्यूनताः निर्दिश्य उक्तवान् यत् अद्यतन-व्यवस्थायां यदि कश्चन एकाकी चौर्यं करोति तर्हि सः दण्डं लभते, किन्तु यदि सम्पूर्णः समूहः मिलित्वा गृहम् लुण्ठयति तर्हि तस्मिन् विषये कठोर-कार्यवाही न दृश्यते।
सः उदाहरणं दत्त्वा उक्तवान् यत् आम-आदमी-पक्षस्य राज्यसभा-सप्त-सांसदानां प्रकरणे दल-परिवर्तनस्य पश्चात् अपि काचित् कार्यवाही न जाता, एषः एव अस्य अधिनियमस्य दुर्बलतां प्रदर्शयति।
शान्त-कुमारः शनिवासरे स्व-प्रकटनम् कृत्वा देशस्य राजनीतेः अधः-पतन-स्तरं प्रति अपि चिन्तां प्रकटितवान्। सः अवदत् यत् पूर्वं राजनीति सेवा, सत्यता तथा राष्ट्रहिताय क्रियते स्म, किन्तु अद्य सा केवलं सत्ता तथा पद-प्राप्त्यै सीमिता जाता।सः उक्तवान् यत् गुलाम-भारत-काले राजनीति पूर्णतया देशसेवायै समर्पिता आसीत्। भगत-सिंहादयः सहस्रशः देशभक्ताः मातृभूमेः सेवायै हसन्तः स्व-प्राणान् अपि अर्पितवन्तः, किन्तु स्वतन्त्र-भारतस्य राजनीतिः अधुना व्यक्तिगत-तथा राजनीतिक-स्वार्थे केन्द्रिता जाता।
सः सर्वान् राजनीतिक-दल-नेतॄन् प्रति आग्रहं कृतवान् यत् दल-परिवर्तन-अधिनियमः पुनर्विचाराय योग्यः अस्ति, तथा एव सः व्यवस्थां कर्तुं शक्यते यया सामूहिक-दल-परिवर्तनम् अपि स्पष्टतया दण्डनीयं भवेत्।
हिन्दुस्थान समाचार / अंशु गुप्ता