सीतारमणो वित्तीय क्षेत्रात् साइबर सुरक्षां प्रति अत्यंतं सतर्कतामुतवती वर्तयितुम्
मुंबई, 22 अप्रैलमासः (हि.स)।केन्द्रीयवित्तकॉर्पोरेटकार्यविभागस्य मन्त्री निर्मला सीतारमणश्शनिवासरे वित्तीयक्षेत्रे विनियमितसंस्थाः प्रति साइबरसुरक्षासंकटेषु अत्यन्तं सतर्काः भवितुम् आह्वानं कृतवती। सीतारमण महोदया मुम्बईनगरे भारतीय प्रतिभूति और विन
सेबी के स्थापना दिवस को संबोधित करते हुए सीतारमण


सेबी के स्थापना दिवस को संबोधित करते हुए सीतारमण


मुंबई, 22 अप्रैलमासः (हि.स)।केन्द्रीयवित्तकॉर्पोरेटकार्यविभागस्य मन्त्री निर्मला सीतारमणश्शनिवासरे वित्तीयक्षेत्रे विनियमितसंस्थाः प्रति साइबरसुरक्षासंकटेषु अत्यन्तं सतर्काः भवितुम् आह्वानं कृतवती।

सीतारमण महोदया मुम्बईनगरे भारतीय प्रतिभूति और विनिमय बोर्ड इत्यस्य अष्टत्रिंशततमस्थापनादिवससमारोहे सम्बोधनं कुर्वन्ती एतत् उक्तवती। अस्मिन्नवसरे तया “मिशन जागरूक” इति राष्ट्रव्यापी निवेशकजागरूकतापहलस्य डिजिटलरूपेण उद्घाटनं कृतम्।

सेबीसंस्थायाः अष्टत्रिंशततमस्थापनादिवससमारोहे सा अवदत् यत् कस्यापि शेयरबाजारस्य अथवा अभिरक्षकसंस्थायाः (डिपॉजिटरी) उपरि एकमपि साइबरआक्रमणं आर्थिकक्रियाकलापान् बाधितुं शक्नोति तथा सामान्यजनानां विश्वासं प्रभावितुं शक्नोति। कृत्रिममेधा आधारितनवीनोन्नतउपकरणानां आगमनेन स्वचालितसाइबरआक्रमणानां संकटं वर्धितम् अस्ति, येन साइबरसुरक्षायाः आवश्यकता अधिका अभवत्। सा अवदत्— “न केवलं सेबी, अपितु सर्वाः विनियमितसंस्थाः अत्यन्तं सावधानाः भवितव्याः। आक्रमणप्रकाराः शीघ्रं विकसिताः भवन्ति, तस्मात् प्रतिरक्षोपायाः अपि तस्मात् अधिकवेगेन विकसिताः करणीयाः।”

वित्तमन्त्री सेबीसंस्थां प्रति अपि आग्रहं कृतवती यत् सा वैश्विकनियामकसंस्थाभिः सह नियमितपरामर्शव्यवस्थां संस्थागतरीत्या स्थापयेत्। सा एतत् अपि स्पष्टं कृतवती यत् भारतीयनियमनम्अन्यदेशानां केवलं अनुकरणं न करोतु। विदेशीयपूंजीप्रवाहसम्बन्धे विद्यमानचिन्तायाः मध्ये सा अवदत् यत् नियामकसंस्थासु एतादृशः संवादः वैश्विकनिवेशकेषु विश्वासवृद्धिं कर्तुं समर्थः भवति।

---------------

हिन्दुस्थान समाचार