मुख्यमन्त्री धामी बोर्ड-परीक्षासु उत्तीर्ण-छात्रेभ्यः शुभकामनाः अयच्छत्, उक्तवान्—छात्राणां परिश्रमस्य फलम् इदम्
देहरादूननगरम्, २५ अप्रैलमासः (हि.स.)। उत्तराखण्ड-विद्यालयीय-शिक्षा-परिषदः शनिवासरे घोषिते हाईस्कूल-तथा-इण्टरमीडिएट-परीक्षाफले उत्तीर्ण-विद्यार्थिभ्यः मुख्यमंत्री पुष्कर-सिंह-धामी शुभकामनाः प्रेषितवान्। सः सफल-विद्यार्थिभ्यः उज्ज्वल-भविष्यस्य कामनां
मुख्यमंत्री पुष्कर सिंह धामी।


देहरादूननगरम्, २५ अप्रैलमासः (हि.स.)। उत्तराखण्ड-विद्यालयीय-शिक्षा-परिषदः शनिवासरे घोषिते हाईस्कूल-तथा-इण्टरमीडिएट-परीक्षाफले उत्तीर्ण-विद्यार्थिभ्यः मुख्यमंत्री पुष्कर-सिंह-धामी शुभकामनाः प्रेषितवान्। सः सफल-विद्यार्थिभ्यः उज्ज्वल-भविष्यस्य कामनां कृत्वा तेषां परिजनान् अपि शुभकामना: अयच्छत्।

मुख्यमन्त्री धामी उक्तवान् यत् एषा सफलता विद्यार्थिनां निरन्तर-परिश्रमस्य, अनुशासनस्य तथा अटूट-संकल्पस्य परिणामः अस्ति। सः विश्वासं प्रकटितवान् यत् एतेन एव लग्नेन आत्मविश्वासेन च छात्राः स्व-जीवने नूतनानि उच्चतमानि स्थानानि प्राप्स्यन्ति तथा प्रदेशस्य नाम वर्धयिष्यन्ति।

सः इदमपि उक्तवान् यत् येषां विद्यार्थिनां अपेक्षितं परिणामं न प्राप्तम्, तेभ्यः निराशा न करणीया। धैर्येण, सकारात्मक-चिन्तनेन तथा निरन्तर-प्रयत्नेन ते निश्चितं भविष्ये सफलतां प्राप्स्यन्ति। मुख्यमन्त्री सफल-विद्यार्थिनां अभिभावकेभ्यः अपि शुभकामना: अयच्छत् तथा तेषां योगदानस्य प्रशंसां कृतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता