Enter your Email Address to subscribe to our newsletters

-योगी आदित्यनाथः पूर्व मुख्यमंत्रिणो हेमवती नंदन बहुगुणा इत्यस्य जयंत्यां कृतवान् नमनं, प्रतिमायाम् अर्पितवान् पुष्पांजलिम्
लखनऊ, 25 अप्रैलमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः पूर्वमुख्यमन्त्रिणः स्वर्गीयहेमवतीनन्दनबहुगुणस्य जयंतीदिने तस्मै नमनं कृतवान्। शनिवासरे योजनाभवने स्थितायां तस्य प्रतिमायां पुष्पाञ्जलिं समर्पितवान्।मुख्यमन्त्री अवदत् यत् बहुगुणमहाशयः भारतस्य राजनीतिक्षेत्रे महत्त्वपूर्णः स्तम्भः आसीत्। तस्य जन्म तत्कालीनउत्तरप्रदेशे (अधुना उत्तराखंड) पौढीगढ़वालजिलायां पञ्चविंशतितमे एप्रिलमासस्य दिने १९१९ तमे वर्षे अभवत्। प्रारम्भिकशिक्षां ग्रामे एव प्राप्तवान्, अनन्तरं उच्चशिक्षार्थं सः प्रयागराज नगरं गतवान्।१९४२ तः १९४६ पर्यन्तं राष्ट्रपितुः महात्मा गांधी महोदयस्य आह्वाने ‘भारतत्यागआन्दोलन’ (भारत छोड़ो आंदोलन) मध्ये बहुगुणमहाशयस्य सक्रियसहभागिता आसीत्, यस्य कारणात् ब्रिटिशशासनद्वारा सः कारागारेऽपि नीतः।१९५२ तमे वर्षे प्रथमवारं उत्तरप्रदेशविधानसभायाः सदस्यः अभवत्। मुख्यमन्त्री उक्तवान् यत् बहुगुणमहाशयः इलाहाबाद विश्वविद्यालय इत्यस्य प्रखरछात्रनेता आसीत्, तेन स्वीयां विशिष्टां छापां न्यवेशयत्। सः देशस्य स्वाधीनताआन्दोलने निरन्तरं सक्रियः आसीत्। स्वातन्त्र्यानन्तरं १९५२ तमे वर्षे प्रथमसामान्यनिर्वाचने सः प्रथमवारं उत्तरप्रदेशविधानसभायाः सदस्यः अभवत्।तस्मै प्रदेशसरकारस्य मन्त्रिरूपेण अपि कार्यं कर्तुं अवसरः प्राप्तः। उत्तरप्रदेशे विविधविभागानां मन्त्रिरूपेण तथा मुख्यमन्त्रिरूपेण तस्य सेवाः प्रशंसनीयाः आसन्।योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशस्य विकासाय बहुगुणमहाशयस्य स्वकीयः दृष्टिकोणः आसीत्, यस्य प्रभावः अद्यापि व्यवहारतः अनुभवितुं शक्यते। बहुगुणमहाशयः केन्द्रसरकारेऽपि अनेकमन्त्रालयेषु सेवां दत्तवान्। दीर्घे राजनैतिकसार्वजनिकजीवने तस्य देशसेवा अत्यन्तं उल्लेखनीया आसीत्, या वर्तमानपीढ्यै प्रेरणास्रोतः अस्ति।अस्मिन् कार्यक्रमे उपमुख्यमन्त्री ब्रजेश पाठक, महापौर सुषमा खर्कवाल, विधायकौ नीरज बोरा, अमरेश कुमार, विधानपरिषद्सदस्यः लालजी प्रसाद निर्मल, रामचंद्र प्रधान इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार