Enter your Email Address to subscribe to our newsletters

लखनऊ, 25 अप्रैलमासः (हि.स.)।
उत्तरप्रदेशे होमगार्डपदानां प्रायः द्विचत्वारिंशत्सहस्र (४२,०००) पदेषु भर्तीकरणार्थं त्रिदिवसीया लिखितपरीक्षा आयोजिता अस्ति, यस्याः शनिवासरे प्रथमदिने प्रथमपालीयाः परीक्षा शान्तिपूर्वकं सम्पन्ना। लखनऊ, कानपुर, प्रयागराज इत्यादिषु सर्वेषु जनपदेषु स्थापितेषु परीक्षा-केन्द्रेषु पर्याप्तं सुरक्षाबलम् नियुक्तम् आसीत्। चतुर्बागस्थानके रेलयानस्य विलम्बेन आगमनात् कतिपयेषां अभ्यर्थिनां परीक्षा च्युताऽभवत्।
द्वितीयपालीयाः परीक्षा अपराह्णे त्रिवादनात् पञ्चवादनपर्यन्तं भविष्यति। एतत् दृष्ट्वा सर्वेषु परीक्षा-केन्द्रेषु दृढा सुरक्षाव्यवस्था कृता अस्ति। पुलिसमुख्यालयात् सर्वेषां जनपदानां उपरि दृष्टिः स्थापिता अस्ति।
पुलिसमुख्यालयात् प्राप्तसूचनानुसारं होमगार्डपदानां लिखितपरीक्षा एप्रिलमासस्य पञ्चविंशतितमे, षड्विंशतितमे, सप्तविंशतितमे च दिने द्वयोः पाल्योः आयोज्यते। एषा परीक्षा चतुर्सप्ततिः (७४) जनपदेषु एकसहस्रत्रयाधिकपञ्चाशत् (१०५३) केन्द्रेषु आयोजिता, यस्मिन् प्रायः पञ्चविंशतिलक्षाधिकाः अभ्यर्थिनः सहभागीभवन्ति। शनिवासरे प्रथमदिने प्रथमपालीयाः परीक्षा सम्पन्ना।
कठिनपरिशोधनानन्तरं अभ्यर्थिभ्यः केन्द्रेषु प्रवेशः दत्तः। उत्तरप्रदेशस्य विभिन्नेषु जनपदेषु स्थापितेषु १०५३ परीक्षा-केन्द्रेषु दृढा सुरक्षाव्यवस्था आसीत्। रेटीना-स्कैन तथा बायोमेट्रिक-परीक्षणानन्तरं अभ्यर्थिभ्यः प्रवेशः अनुमतः। हस्तेषु बद्धाः कलावा, कटिबन्धः (बेल्ट) अपि अपासारिताः। परीक्षा-केन्द्रेषु सीसीटीवी-द्वारा निरन्तरं निरीक्षणं क्रियते।
उत्तर प्रदेश पुलिसनियुक्तेः एवं प्रोन्नतिपरिषदश्च अध्यक्षः एसबी शिरडकर अवदत् यत् त्रिदिवसीयायाः होमगार्डपरीक्षायाः विषये उत्तरप्रदेशपुलिस् सतर्का अस्ति। परीक्षां नकलविहीनां शान्तिपूर्णां च कर्तुं सर्वेषु केन्द्रेषु कठोरनिगराणी क्रियते। ग्रीष्मकालस्य अपि विचारं कृत्वा अभ्यर्थिनां कृते आवश्यकव्यवस्थाः कृताः सन्ति।
बोर्डेन ‘एक्स’ सामाजिकमाध्यमे सूचितं यत् उत्तरप्रदेश-होमगार्ड-नामांकन-२०२५ इत्यस्य लिखितपरीक्षायाः शुचितां रक्षितुं तथा प्रश्नपत्रस्य क्रय-विक्रय, नकलप्रयत्नाः, सॉल्वर-समूहक्रियाः अथवा अन्याः अवाञ्छनीयक्रियाः इत्येषां विषये सूचनां प्राप्तुं ई-मेल्-परिचयः तथा व्हाट्सऐप-संख्या प्रकाशिताः। कश्चन अपि निर्भीकतया सूचना दातुं शक्नोति, तस्य परिचयः गोपनीयः एव रक्ष्यते।
---------------
हिन्दुस्थान समाचार