Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 25 अप्रैलमासः (हि.स.)।
उत्तर प्रदेशस्य मीरजापुर जनपदस्य जिगना क्षेत्रस्य बदेवरा ग्रामे स्थिते बदेवरा नाथ धाम्नि वैशाख शुक्ल पक्षस्य नवमी तिथौ शनिवासरे मन्त्रोच्चारणेन सह नवनिर्मितस्य दिव्य राममन्दिरस्य भव्यः लोकार्पणोत्सवः सम्पन्नः।
कार्यक्रमस्य मुख्यातिथिः प्रयागराज उच्च न्यायालयस्य न्यायमूर्तिः मंजू रानी चौहान महोदया विधिवत् पूजा अर्चना कृत्वा मन्दिरस्य उद्घाटनं कृतवती। स्वीय संबोधने न्यायमूर्तिः मंजू रानी चौहान महोदया संस्कारसंस्कृतेः धरोहरां संरक्षणस्य अपीलं कृतवती। नेगुरा ग्रामनिवासिनी सा अवदत् यत् बदेवरा नाथ धाम्नः कायाकल्पं दृष्ट्वा तस्याः आत्मिकानन्दस्य अनुभूति अभवत्। तया अत्र ग्राम न्यायालयस्य स्थापना अपि उद्घोषिता। मन्दिरपरिसरे ग्रेनाइट तथा इंटरलॉकिंग कार्यस्य सा प्रशंसां कृतवती।
अस्मिन् अवसरे न्यायमूर्तिः जयकृष्ण उपाध्याय महोदयः मन्दिरनिर्माणस्य प्रणेता भदोही जनपदस्य जंगीगंज क्षेत्रस्थितस्य जगापुर ग्रामनिवासी धर्मप्राण निखिलेश मिश्रस्य मुक्तकण्ठेन प्रशंसां कृतवान्। खैरा ग्रामनिवासी न्यायमूर्तिः उक्तवान् यत् गतपञ्चवर्षेषु बदेवरा नाथ धाम प्रमुखः धार्मिकस्थलरूपेण विकसितः अस्ति।
लोक सेवा आयोगस्य सदस्यः कल्पराज सिंहः अवदत् यत् मन्दिरनिर्माणस्य इदृशं पुण्यकार्यं कुर्वन्तः जनाः सम्मानस्य पात्राः सन्ति। कार्यक्रमे प्रधानः माहेश्वरी उपाध्याय तथा मन्दिरनिर्मातृ पवन मिश्र एवं निखिलेश मिश्र अतिथीन् अंगवस्त्रं तथा बदेवरा नाथस्य चित्रं प्रदाय सम्मानितवन्तः।
कार्यक्रमस्य संचालनं सहायकप्रवक्त्री रंजना त्रिपाठी कृतवती। अस्मिन् अवसरि न्यायमूर्तिः प्रकाश पाण्ड्य, जिला पंचायत अध्यक्षः राजू कन्नौजिया, करमेश चन्द्र तिवारी, अवधराज उर्फ पप्पू सिंहः, प्रेम बहादुर सिंहः इत्यादयः बहवः गणमान्य नागरिकाः उपस्थिताः आसन्।
समापनसमये आयोजिते भण्डारे श्रद्धालवः प्रसादं गृहीत्वा धार्मिक वातावरणे कार्यक्रमः सफलतया सम्पन्नः।
---------------
हिन्दुस्थान समाचार