जबलपुर-नगरे १४ केन्द्रेषु द्वयोः सत्रयोः राज्य-वन-सेवा-प्रारम्भिक-परीक्षा भविष्यति
जबलपुरनगरम्, २५ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्य-लोक-सेवा-आयोगेन २६ अप्रैल-दिने आयोज्यमाना राज्य-सेवा-तथा-राज्य-वन-सेवा-प्रारम्भिक-परीक्षा-२०२६ जबलपुर-नगरे १४ परीक्षा-केन्द्रेषु भविष्यति। एषा परीक्षा पूर्णतः निर्विघ्ना, सुव्यवस्थिता तथा शुचिता-
राज्य सेवा व राज्य वन सेवा प्रारंभिक परीक्षा का आयोजन 26 अप्रैल को, दो सत्रों में होगी परीक्षा


जबलपुरनगरम्, २५ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्य-लोक-सेवा-आयोगेन २६ अप्रैल-दिने आयोज्यमाना राज्य-सेवा-तथा-राज्य-वन-सेवा-प्रारम्भिक-परीक्षा-२०२६ जबलपुर-नगरे १४ परीक्षा-केन्द्रेषु भविष्यति। एषा परीक्षा पूर्णतः निर्विघ्ना, सुव्यवस्थिता तथा शुचिता-युक्ता भवेत् इति उद्देश्येन प्रशासनेन सर्वा सज्जता कृता अस्ति।

संभागायुक्त-कार्यालयेन शनिवासरे सूचितं यत् अस्मिन् वर्षे सुरक्षायाः विशेष-प्रबन्धाः कृताः सन्ति, येषु त्रिस्तरीय-नवीन-निरीक्षण-प्रक्रिया अनिवार्यतया प्रवर्तयिष्यते। परीक्षा रविवासरे, २६ अप्रैल-दिने, द्वयोः सत्रयोः भविष्यति—प्रथमं सत्रं प्रातः १० वादनतः १२ वादनपर्यन्तं तथा द्वितीयं सत्रं अपराह्णे ०२:१५ वादनतः ०४:१५ वादनपर्यन्तं च।

परीक्षायाः पारदर्शितां रक्षितुं बायोमेट्रिक-प्रमाणीकरणं, प्रवेश-पत्रस्य स्कैनिङ्ग तथा एचएचएमडी-यन्त्रस्य उपयोगः इति त्रिस्तरीय-निरीक्षण-व्यवस्था प्रवर्तिता अस्ति। अस्याः व्यवस्थायाः अनुसारं परीक्षार्थिभिः परीक्षा-केन्द्रे ९० निमेषपूर्वम् आगमनं अनिवार्यं कृतम्।

प्रशासनं स्पष्टं कृतवान् यत् परीक्षार्थिनः केवलं आवश्यकं बॉलपेन, पारदर्शी-जलपात्रं, ई-प्रवेश-पत्रं तथा वैध-परिचय-पत्रं एव सह नेतुं शक्नुवन्ति। सुरक्षा-निरीक्षण-काले महिलापरीक्षार्थिनां निरीक्षणं महिला-अधिकारीभिः पृथक् कक्षे भविष्यति, पुरुषाणां च तलाशी पुरुष-कर्मचारिभिः क्रियते। ट्रान्सजेंडर-अभ्यर्थिनः स्वेच्छया पुरुष-वा महिला-कर्मचारिभिः निरीक्षणं कारयितुं शक्नुवन्ति।

परीक्षा-केन्द्रेषु प्रवेश-द्वारे एव निषिद्ध-तथा-अनुमत-वस्तूनां सूची प्रदर्शिता भविष्यति, यथा परीक्षार्थिनः भ्रमं न अनुभवन्ति। परीक्षार्थिभिः उपानत्-धारणं वर्जितम्, ते केवलं पादुका-धारणं कर्तुं शक्नुवन्ति। इलेक्ट्रॉनिक-उपकरणानां, स्मार्ट-घटिकानां, मोबाइल-फोन-आदिनां प्रयोगः पूर्णतया निषिद्धः अस्ति।

धार्मिक-चिह्नानि यथा हिजाबः, पगड़ी, पल्लवः, धागा-ताबीजादयः सम्मानपूर्वकं सूक्ष्मतया परीक्ष्यन्ते, तेषां अनावश्यक-अवतारणं न भविष्यति। महिला-अभ्यर्थिनां निरीक्षणं पूर्ण-गरिमया महिला-कर्मचारिभिः एव क्रियते।

अनुमत-वस्तुषु ई-प्रवेश-पत्रं, वैध-परिचय-पत्रं, पारदर्शी-जलपात्रं, दिव्याङ्ग-अभ्यर्थिनां आवश्यक-सामग्री च अन्तर्भवति। वर्जित-वस्तुषु अंकनी, रबर, चलदूरभाषा:, ब्लूटूथ, स्मार्ट-घपशटिका, स्यूत:, पठन-सामग्री, अस्त्र-शस्त्रादयः सर्वथा निषिद्धाः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता