केन्द्रीय-उद्योग- एवं-वाणिज्य-मन्त्री पीयूष-गोयलः पत्न्या सह ताजमहलम् अवलोकितवान्
आगरानगरम्, २६ अप्रैलमासः (हि.स.)। केन्द्रीय-वाणिज्य-मन्त्री पीयूष-गोयलः रविवासरे प्रातःकाले पत्न्या सह विश्व-धरोहर-ताजमहलस्य दर्शनं कृतवान्। ततः अनन्तरं सः होटले आग्रस्य निर्यातकैः उद्योगपतिभिः सह आयोजितायां सभायां भागं गृहीतवान्। केन्द्रीय-मन्त्र
पीयूष गोयल पहुंचे ताजमहल


आगरानगरम्, २६ अप्रैलमासः (हि.स.)। केन्द्रीय-वाणिज्य-मन्त्री पीयूष-गोयलः रविवासरे प्रातःकाले पत्न्या सह विश्व-धरोहर-ताजमहलस्य दर्शनं कृतवान्। ततः अनन्तरं सः होटले आग्रस्य निर्यातकैः उद्योगपतिभिः सह आयोजितायां सभायां भागं गृहीतवान्।

केन्द्रीय-मन्त्री पीयूष-गोयलः शनिवासरस्य रात्रौ सपत्नीकः देहल्याः आगरानगरम् आगतः। पञ्च-तारक-होटले रात्रि-विश्रामं कृत्वा रविवासरे प्रातःकाले पत्न्या सीमा-गोयल-इत्यनया सह प्रायः षट्-वादने ताजमहलम् आगतः। शिल्पग्रामात् गोल्फ-कार्ट-यानस्य माध्यमेन ताजमहलस्य पूर्व-द्वारं प्राप्त्वा तत्र प्रविष्टवान्। प्रायः द्वे होरे ताजमहले स्थित्वा सहगामिना मार्गदर्शकेन सह तस्य निर्माणस्य सूक्ष्म-विवरणानि ज्ञातवान् तथा च डायना-बेञ्च् उपरि पत्न्या सह छायाचित्रणं कारितवान्। ताजमहल-दर्शनानन्तरं सः अमर-विलास-होटल-प्रति प्रस्थितवान्।

सः आग्रानगरे उपानत्-निर्माण-क्रीडनक-औषध- (फार्मा), आयुष-क्षेत्रेषु संलग्नैः निर्यातकैः उद्योगपतिभिः सह एकस्य महत्त्वपूर्णस्य समागमस्य भागी अभवत्, यत्र निर्याते आगच्छन्तीनां समस्याः, तासां समाधानम्, तथा विचारा: इत्यादिषु विस्तरेण विचार-विमर्शः कृतः।

उल्लेखनीयं यत् आगरानगरं जूता-निर्माणे, निर्याते, व्यापार-क्षेत्रे च भारतस्य महत् केन्द्रम् अस्ति। अद्यतन-पश्चिम-एशिया-प्रदेशस्य परिस्थितिनां परिप्रेक्ष्ये उपानत्-उद्योगे सम्भावित-प्रतिकूल-प्रभावेषु अपि चर्चा अभवत्। पीयूष-गोयलेन ‘मेक-इन-इण्डिया’ अभियानस्य विषये अपि विचाराः व्यक्ताः। आग्रस्य निर्यात-उद्योग-विकास-क्षेत्रे अयं समागमः महत्त्वपूर्णः मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता