Enter your Email Address to subscribe to our newsletters

श्रीराम जन्मभूमि मंदिर परिसरे सायं 5पञ्चवादने भविष्यति ध्वजारोहणकार्यक्रमः
700 तः अधिकातिथयो भविष्यति ज्यादा सम्मिलिताः, वाहनानां प्रवेशस्थापनयोः करिष्यते व्यवस्था
अयोध्या, 26 अप्रैलमासः (हि.स.)।श्रीरामजन्मभूमिमन्दिरपरिसरे सर्वेषां मन्दिराणां देवताविग्रहाणां प्राणप्रतिष्ठायाः अनन्तरं रामलला माताअन्नपूर्णा सूर्यदेव हनुमान् तथा गणेशमन्दिराणां शिखरेषु ध्वजारोहणं सम्पन्नम् अस्ति। अधुना शिवमन्दिरे ध्वजारोहणस्य तैयारी क्रियते।
शिवमन्दिरे ध्वजारोहणं मुख्यमन्त्री योगीआदित्यनाथः २९ एप्रिल दिने करिष्यति। श्रीरामजन्मभूमितीर्थक्षेत्रस्य महासचिवः चम्पतरायः अवदत् यत् वैशाखशुक्लत्रयोदश्यां २९ एप्रिल बुधवासरे सायं पञ्चवादने शिवमन्दिरे ध्वजारोहणं मुख्यमन्त्रिणा योगीआदित्यनाथेन क्रियते। ध्वजारोहणकार्यक्रमस्य अनन्तरं श्रद्धालवः मन्दिरपरिसरे दर्शनं कर्तुं शक्नुवन्ति।
अस्मिन् कार्यक्रमे प्रायः सप्तशतं अतिथयः सहभागी भविष्यन्ति। अतिथीनां कृते प्रवेशव्यवस्था रंगमहलआश्रमतः अमावाराममन्दिरतः रामगुलेलामन्दिरबैरियरपर्यन्तं तथा बिरलाधर्मशालायाः समक्षं स्थितात् जगद्गुरुरामानन्दाचार्यद्वारात् भविष्यति। तेषां वाहनन्यासार्थं टेढ़ीबाजारचौराहे अरुन्धतीभवनवाहनस्थापनं टेढ़ीआपणतः गोकुलभवनमार्गे तथा ब्रह्मकुण्डगुरुद्वारस्य समीपे अपि व्यवस्था कृता अस्ति।
अस्य कार्यक्रमस्य निमित्तम् अयोध्यानगरे सुदृढा सुरक्षाव्यवस्था अपि क्रियते। पुलिसप्रशासनबलानि अपि तत्र नियोजितानि भविष्यन्ति। अस्मिन् अवसरे मन्दिरपरिसरः भव्यरूपेण अलङ्कृतः भविष्यति।
हिन्दुस्थान समाचार