Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 26 अप्रैलमासः (हि.स.)।
श्री केदारनाथ धाम्नः कपाटोद्धाटनस्य सहैव बहुसंख्यकाः श्रद्धालवः प्रतिदिनं बाबादर्शनार्थं आगच्छन्ति। प्रथमे चतुर्षु दिनेṣu एषा संख्या सवा-लक्षपर्यन्तं प्राप्तवती। सुगमसुरक्षितयात्रायाः विषये प्रशासनपुलिसयोः कृतव्यवस्थासु यात्रिकैः सन्तोषः व्यक्तः।
धामं प्राप्तानां श्रद्धालूनां कश्चन समूहः पुलिसअधीक्षिका नीहारिका तोमर इत्यस्यै स्वानुभवं निवेदयन् उक्तवान् यत् यात्रामार्गे मन्दिरपरिसरे च नियुक्तया पुलिसप्रशासनदलया यात्रिकाणां सम्यक् मार्गदर्शनं क्रियते। रात्रौ कपाटोद्धाटनस्य प्रतीक्षां कुर्वतां यात्रिकाणां व्यवस्थितरीत्या दर्शनं कारितम्। ते उक्तवन्तः यत् प्रशासननिर्मितनियमपालनेन व्यवस्था न केवलं स्थिता, अपि तु सर्वेभ्यः सुगमतया दर्शनलाभः अभवत्।
श्रद्धालवः विशेषतः सेवायां नियुक्तानां कर्मणां व्यवहारं सेवाभावं च प्रशंसितवन्तः। ते अवदन् यत् बाह्यप्रदेशेभ्यः आगच्छतां यात्रिकाणां सुरक्षा सुविधाश्च पूर्णतया परिपालिताः, येन तेषां कृते सकारात्मकं वातावरणं निर्मितम्।
जनपदपुलिसप्रशासनयोः मुख्यलक्ष्यं श्रीकेदारनाथधामं प्रति आगच्छतां प्रत्येकस्य श्रद्धालोः यात्रां सुरक्षितां सुखदां च कर्तुम् अस्ति। सर्वेषु स्तरिषु यात्रिकसहाय्यार्थं दलानि निरन्तरं सज्जानि सन्ति।
हिन्दुस्थान समाचार