Enter your Email Address to subscribe to our newsletters

बिलासपुर-रायपुर-नगरयोः, २६ अप्रैलमास: (हि.स.)। छत्तीसगढ़-राज्यस्य बिलासपुर-जनपदे मल्हार-क्षेत्र-निवासी संजीव-पाण्डेय: इत्यस्य समीपे प्रायः द्विसहस्र-वर्ष-पुरातनं त्रि-किलोग्राम-परिमितं प्राचीन-ताम्रपत्रं प्राप्तम्।
एतत् ताम्रपत्रं भारत-सर्वकारस्य संस्कृति-मन्त्रालयेन सञ्चालितस्य ‘ज्ञान-भारतम्’ अभियानस्य काले प्रकाशम् आगतः। अस्य अभियानस्य उद्देश्यं देशस्य विविध-प्रदेशेषु निहितानां प्राचीन-पाण्डुलिपिनां ऐतिहासिक-तथ्यानां च अन्वेषणं संरक्षणं च अस्ति।
इतिहासकारः डॉ.एल.एस.निगमः पूर्वमेव मल्हार-क्षेत्रं दक्षिण-कोशलस्य कला-संस्कृतेः केन्द्रम् इति निर्दिष्टवान्। विशेषज्ञाणां मतानुसारं एतत् ताम्रपत्रं तस्मिन् काले भूमिदानस्य अथवा राजकीय-आदेशानां प्रमाणरूपः भवितुम् अर्हति, यः तदानीन्तन-सामाजिक-व्यवस्थां स्पष्टयिष्यति।
अस्मिन् ताम्रपत्रे पाली-भाषायाः प्रयोगः कृतः अस्ति। प्राचीन-काले विशेषतः बौद्ध-युगे तथा मौर्य-युगे पाली-भाषा जनसामान्यस्य धार्मिक-उपदेशानां च प्रमुखा भाषा आसीत्। एतत् ताम्रपत्रं ब्राह्मी-लिप्या लिखितम् अस्ति। ब्राह्मी-लिपेः एव आधुनिक-देवनागरी-आदिनां लिपिनां विकासः अभवत्। अक्षर-शैली-पर्यवेक्षणेन अस्य कालः प्रायः प्रथम-शताब्दी-पूर्वं अथवा ततः परं भवितुम् अर्हति इति अनुमानं क्रियते।
वर्तमाने पुरातत्व-विभागः तथा ‘ज्ञान-भारतम्’ अभियानस्य विशेषज्ञाः अस्य ताम्रपत्रस्य शुद्धीकरणं तथा अक्षर-पठनकार्यं कुर्वन्ति। पूर्ण-अनुवादानन्तरं एव स्पष्टं भविष्यति यत् अस्मिन् कस्य राज्ञः—यथा मौर्य-सम्राट् अथवा सातवाहन-शासकस्य—उल्लेखः अस्ति वा न वा।
विशेषज्ञाः मन्यन्ते यत् पाली-भाषा तथा ब्राह्मी-लिपेः संयोजनं अस्य मौर्य-कालीनं अथवा तत्समीपवर्ती-कालीनं (प्रायः २०००-वर्ष-पुराणं) अस्ति इति दृढ-संकेतं ददाति। उल्लेखनीयम् अस्ति यत् मल्हार-क्षेत्रं (पुरातन-नाम प्रसन्नपुरः) प्राचीन-काले महत्वपूर्णं व्यापारिकं धार्मिकं च केन्द्रम् आसीत्। एषा प्राप्तिः मौर्य-तथा-मौर्योत्तर-कालीन-शासन-व्यवस्थायाः अध्ययनाय महत्त्वपूर्णा सिद्धा भवितुम् अर्हति।
एतदन्वेषणं छत्तीसगढ़-राज्यस्य समृद्धं सांस्कृतिक-पुरातात्त्विक-धरोहरं प्रकाशयति। प्रारम्भिक-अनुमानानुसारं तादृश-ताम्रपत्राणि प्राचीन-काले भूमिदानं, राजकीय-आदेशान् वा धार्मिक-घोषणाः लिखितुं प्रयुज्यन्ते स्म।
पुरातत्वविदां मतम् अस्ति यत् यदि अस्य वैज्ञानिक-परीक्षणं विस्तरेण क्रियते, तर्हि तदानीन्तन-शासन-व्यवस्था, सामाजिक-नमूनां तथा धार्मिक-परम्पराणां विषये बहूनि महत्त्वपूर्णानि तथ्यानि प्रकाशं गमिष्यन्ति।
एषा प्राप्तिः मल्हार-क्षेत्रस्य ऐतिहासिक-महत्त्वं पुनः पुष्टयति तथा राष्ट्रिय-स्तरे महत्त्वपूर्ण-धरोहररूपेण परिगण्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता