Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ अप्रैलमासः। भारतस्य रक्षा-इतिहासे एषः दिवसः विशेष-महत्त्वं वहति, यतः अयं दिवसः तस्याः विचारधारायाः सम्बद्धः अस्ति या राष्ट्रस्य सुरक्षा-नीतिं रणनीतिक-चिन्तनं च नूतनदिशां दत्तवती। अस्याः चिन्तनधारायाः परिणामः अस्ति ‘राष्ट्रीय-रक्षा-महाविद्यालयः’ (नेशनल-डिफेन्स-कॉलेजः), यः भारतस्य सर्वोच्चं रणनीतिक-प्रशिक्षण-संस्थानम् इति मन्यते।
भारत-सर्वकारेण १९५९ वर्षे यूके-देशस्य इम्पीरियल-डिफेन्स-महाविद्यालयस्य आदर्शेन अस्य संस्थानस्य स्थापना-निर्णयः कृतः। अनन्तरं २७ अप्रैलः अस्य संस्थानस्य औपचारिक-स्थापनायाः दिशि महत्वपूर्णः ऐतिहासिकः दिवसः अभवत्। अस्य महाविद्यालयस्य उद्घाटनं भारतस्य प्रथम-प्रधानमन्त्रिणा पण्डित-जवाहरलाल-नेहरूणाऽकृतम्, येन एतत् राष्ट्रीय-सुरक्षायाः बौद्धिक-विकासस्य केन्द्रम् इति निरूपितम्।
एषः महाविद्यालयः नवदेहल्यां स्थितः अस्ति, अस्य मुख्य-उद्देश्यं राष्ट्रस्य वरिष्ठ-सैन्य-तथा-प्रशासनिक-अधिकारिणां कृते रणनीतिक-चिन्तनं, रक्षा-नीतिः, अन्तरराष्ट्रीय-सम्बन्धाः तथा राष्ट्रीय-हितानां गहन-समझः प्रदातुम् अस्ति। अत्र भारतीय-सेना, नौ-सेना, वायु-सेना-सम्बद्धाः वरिष्ठ-अधिकारिणा सह आईएएस, आईपीएस तथा आईएफएस-अधिकारिणः अपि प्रशिक्षणं प्राप्नुवन्ति।
प्रतिवर्षं प्रायः पञ्चविंशतिः वरिष्ठ-अधिकारिणः अस्मै पाठ्यक्रमाय चयनिताः भवन्ति। तदतिरिक्तं अमेरिका, ब्रिटेन, कनाडा, फ्रांस, जर्मनी, ऑस्ट्रेलिया, श्रीलंका, नेपाल, यूएई इत्यादि-देशेभ्यः अपि अधिकारिणः अत्र भागं गृह्णन्ति, येन एतत् अन्तरराष्ट्रीय-रणनीतिक-मञ्चरूपेण विकसितम् अस्ति।
अस्य संस्थानस्य अध्यापक-मण्डले तिसृभि: सेनाभि: सह सिविल-सेवायाः अनुभवी-अधिकारिणः अपि अन्तर्भवन्ति। प्रथमः कमाण्डेण्टः लेफ्टिनेंट्-जनरल् के. वी. कृष्णा-रावः आसीत्, येन अस्य संस्थानस्य दृढा आधार-रचना कृता। अद्य एषः महाविद्यालयः भारतस्य सुरक्षा-तथा-नीति-निर्माणे चिन्तन-केंद्ररूपेण (थिंक-टैंक्) महत्वपूर्णां भूमिकां निर्वहति तथा राष्ट्रस्य रणनीतिक-नेतृत्वस्य निर्माणे महत्त्वपूर्णं योगदानं ददाति।
महत्वपूर्ण-घटनाः
१९४२ — अमेरिका-देशस्य ओक्लाहोमा-प्रदेशे भीषण-चक्रवातेन १०० जनाः मृताः।१९६० — नवदेहल्यां नेशनल-डिफेन्स-महाविद्यालयस्य प्रारम्भः।१९७२ — अन्तरिक्षयानं ‘अपोलो-१६’ पृथ्वीं प्रति प्रत्यागतम्।१९८९ — बाङ्ग्लादेशे चक्रवातेन ५०० जनानां मृत्युः।१९९९ — यूनेस्को-संस्थया ‘अरिरंग’ इति नूतन-पुरस्कारस्य घोषणा कृता।२००५ — फ्रांस-देशस्य टुलुज-नगर्यां एयरबस-ए-३८० विमानस्य प्रथम-परीक्षण-उड्डयनम् अभवत्।२००८ — राजस्थान-राज्ये प्रत्येक-जनपद-मुख्यालये विकलाङ्गानां कृते मोबाइल्-न्यायालय-स्थापनस्य निर्णयः कृतः।२०१० — ‘यूआईडीएआई’ संस्थया ‘आधार’ इति नूतन-परिचय-संख्या-नाम तथा चिह्नं प्रस्तुतम्।२०११ — अमेरिका-राष्ट्रपतिः बराक-ओबामा स्वस्य जन्म-प्रमाणपत्रस्य प्रति सार्वजनिकीकृतवान्।२०१७ — प्रसिद्धः हिन्दी-चित्रपट-अभिनेता विनोद-खन्ना दिवङ्गतः।
जन्म
१८२० — हरबर्ट-स्पेन्सरः, प्रसिद्धः दार्शनिकः समाजशास्त्री च।१९१२ — जोहरा-सहगल्, प्रसिद्धा अभिनेत्री।१९२० — मनीभाई-देसाई, स्वतन्त्रता-सैनिकः।१९३१ — स्वामी-विश्वेशतीर्थः, हिन्दू-सन्तः।१९४७ — हरीश-रावतः, उत्तराखण्डस्य पूर्व-मुख्यमन्त्री।१९४९ — पी. सतशिवम्, भारतस्य सर्वोच्च-न्यायालयस्य न्यायाधीशः।
निधनम्
१९३० — टी. के. माधवन, समाज-सुधारकः।१९९८ — गुयेन-वैन-लिंहः, वियतनाम-देशस्य नेता।२००९ — फिरोज-खानः, अभिनेता।२०१० — हेमन्त-दासः, उड़िया-चित्रपट-अभिनेता।२०१७ — विनोद-खन्ना, अभिनेता-राजनीतिज्ञः।२०२१ — मनोज-दासः, ओड़िया-साहित्यकारः।
हिन्दुस्थान समाचार / अंशु गुप्ता