तकनीकी क्षमतया परिभाषियते राष्ट्राणां शक्तिः -जितेंद्र सिंहः
नव दिल्ली, 26 अप्रैलमासः (हि.स.)।केन्द्रीय-विज्ञान-प्रौद्योगिकी-तथा-पृथ्वी-विज्ञान-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ. जितेंद्रसिंहों रविवासरे उक्तवान् यत् सामूहिक-प्रयत्नैः भारतं न केवलं विकसित-राष्ट्रं भविष्यति, अपि तु वैश्विक-प्रगतिम् अपि नूतना
केंद्रीय विज्ञान एवं प्रौद्योगिकी मंत्री डॉ. जितेंद्र सिंह (फाइल फोटो)


नव दिल्ली, 26 अप्रैलमासः (हि.स.)।केन्द्रीय-विज्ञान-प्रौद्योगिकी-तथा-पृथ्वी-विज्ञान-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ. जितेंद्रसिंहों रविवासरे उक्तवान् यत् सामूहिक-प्रयत्नैः भारतं न केवलं विकसित-राष्ट्रं भविष्यति, अपि तु वैश्विक-प्रगतिम् अपि नूतनां दिशां दास्यति। आगामि-दशकेषु कस्यचित् राष्ट्रस्य शक्तिः तस्य प्रौद्योगिकी-क्षमतया एव परिभाषिता भविष्यति।

डॉ. सिंह एतत् लॉस-एञ्जिल्स-नगरे आभासी-माध्यमेन आयोजिते ‘अखिल-आईआईटी-पूर्व-छात्र-सम्मेलने’ सम्बोधयन् उक्तवान्। अस्मिन् वैश्विक-सम्मेलने विश्वस्य सर्वेभ्यः प्रौद्योगिकी-नेतारः, उद्यमिनः, निवेशकाः शोधकर्तारः च सहभागी अभवन्।

अस्मिन् अवसरॆ डॉ. जितेन्द्र-सिंहः उक्तवान्— “भारतं प्रौद्योगिकी-स्वायत्ततां प्राप्तुं तथा वैश्विक-स्तरे स्वस्य प्रगतिं नूतनां दिशां दातुं महत्त्वपूर्ण-प्रौद्योगिकीषु नेतृत्वं कर्तव्यम्।”

नरेंद्रमोदिनो नेतृत्वे भारतस्य प्रगतिं निर्दिशन् सः उक्तवान् यत् देशः केवलं प्रौद्योगिकी-उपभोक्ता नास्ति, अपि तु वैश्विक-नवोन्मेषक-रूपेण उदेति। संवत्सर २०४७ पर्यन्तं ‘विकसित-भारत’ इति दृष्टेः साकारार्थं विज्ञानं, प्रौद्योगिकी तथा नवोन्मेषः अस्माकं आधारः सन्ति। अन्तरिक्ष-कार्यक्रमस्य विस्तारः, जैव-प्रौद्योगिकी-क्षेत्रे प्रगति: तथा डीप-टेक-स्टार्टअप्स् इत्येषां उदयः भारतस्य वर्धमान-वैश्विक-शक्तेः प्रमाणानि सन्ति।

भारतीय-प्रवासिनां, विशेषतः आईआईटी-पूर्व-छात्राणां योगदानं प्रशंसन् मन्त्री तान् भारतस्य तथा वैश्विक-नवोन्मेष-परिसंस्थायाः मध्ये महत्त्वपूर्णां कडिं उक्तवान्। सः अवदत् यत् निवेशेन, मार्गदर्शनेन नीतिगत-सहभागितया च प्रवासी-भारतीयाः देशस्य विकास-पथं निरन्तरं सुदृढीकुर्वन्ति।

डॉ. सिंहः सेमिकण्डक्टर्, कृत्रिम-बुद्धिमत्ता, रोबोटिक्स् तथा क्वाण्टम्-प्रौद्योगिकी इत्यादीनि उदित-क्षेत्राणि राष्ट्रिय-सुरक्षायै आर्थिक-सुदृढतायै च अनिवार्यानीति उक्तवान्।

---------------

हिन्दुस्थान समाचार