Enter your Email Address to subscribe to our newsletters

काठमांडूः, 26 अप्रैलमासः (हि.स.)।
नेपालदेशस्य सीमावर्तीभ्यः भारतीयापणेभ्यः क्रीत्वा आनितेषु वस्तुषु शत-रूप्यकात् अधिकमूल्ये कस्टम-शुल्कग्रहणस्य नियमः यदा कठोरतया प्रवर्तितः, तदा सीमा-नाकेषु सामान्यजनानां भीडः न्यूना जाता।
भारतीयापणात् शत-रूप्यकात् अधिकमूल्यस्य वस्तूनि आनयतः अनिवार्यतया कस्टम-शुल्कं दातव्यमिति नियमस्य प्रवर्तनानन्तरं सीमायां नियुक्ताः सुरक्षाकर्मिणः कर्मचारीणश्च पुटकपरीक्षणात् आरभ्य घोषणाप्रसारणपर्यन्तं क्रियाः तीव्रतया कुर्वन्ति। प्रशासनस्य अपेक्षा अस्ति यत् अवैध-आयात-निरोधाय आरब्धा एषा कठोरता व्यावसायिक-तस्कर्यां न्यूनतां करिष्यति।
प्रशासनस्य तथ्योपस्थानम् अस्ति यत् घरेलूपयोगस्य नाम्ना व्यावसायिकार्थं भारतदेशात् वस्तूनि क्रीत्वा आनयन्तः, पुनःपुनः भारतीयबाजारं गत्वा वस्तुवाहनं कुर्वन्तः च व्यावसायिक-तस्कराः अधुना किञ्चित् न्यूनाः अभवन्। द्विवर्षपूर्वम् अपि कतिपयेषु कस्टम-कार्यालयेषु एषा व्यवस्था प्रवर्तिता आसीत्, किन्तु नेपालदेशस्य स्थानीयजनानां दबावेन कस्टम-विभागः प्रशासनं च पश्चात् अपसृतवन्तौ। अद्य तु शासनस्य कठोर-निर्देशानन्तरं सर्वेषु सीमा-नाकेषु अनिवार्य-कस्टम-नियमः प्रवर्तितः अस्ति।
भैरहवा-कस्टम-कार्यालयस्य प्रमुखः हरिहर-पौडेलः अवदत् यत् वर्तमानकाले सीमा-नाकेषु कठोरता वर्धिता अस्ति, तथा शत-रूप्यकात् अधिकमूल्यस्य वस्तूनि आनयद्भ्यः अनिवार्यतया कस्टम-शुल्कं ग्राह्यते। सः अवदत् यत् घरेलूपयोगस्य नाम्ना यात्रिकैः मुख्य-सीमा-नाकेषु महता प्रमाणेन क्रियमाणं आयातं निरोद्धुं, मुक्त-सीमया जातां तस्कर्यां नियन्त्रणं कर्तुं च एषः उपायः कृतः।
तथैव नेपालगञ्ज-कस्टम-प्रमुखः जनार्दन-पौडेलः अवदत् यत् अनिवार्य-कस्टम-नीत्या देशस्य राजस्वं वर्धिष्यते, अतः शासनं तां कठोरतया प्रवर्तयति। सः अपि अवदत् यत् अस्मात् निर्णयात् शासनं न प्रत्यागन्तव्यम्। यदि जनाः जागरूकाः कृत्वा एषः नियमः प्रभावी-रीत्या प्रवर्त्यते, तर्हि देशे महान् राजस्व-संग्रहः सम्भवति।।
---------------
हिन्दुस्थान समाचार