प्रधानमंत्री 27-28 अप्रैल दिनांकयोः सिक्किमभ्रमणे, विभिन्न परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति
नवदिल्ली, 26 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी २७ तथा २८ एप्रिलदिनांकयोः सिक्किम-राज्यस्य भ्रमणं करिष्यति, यत्र सः राज्यस्य पञ्चाशत्तम-राज्यत्व-वर्ष-समारोहस्य समापन-कार्यक्रमे सहभागी भविष्यति तथा चतुर्सहस्र-कोटि-रूप्यकात् अधिक-मूल्
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 26 अप्रैलमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी २७ तथा २८ एप्रिलदिनांकयोः सिक्किम-राज्यस्य भ्रमणं करिष्यति, यत्र सः राज्यस्य पञ्चाशत्तम-राज्यत्व-वर्ष-समारोहस्य समापन-कार्यक्रमे सहभागी भविष्यति तथा चतुर्सहस्र-कोटि-रूप्यकात् अधिक-मूल्यानां विविध-विकास-परियोजनानां उद्घाटनं, लोकार्पणं शिलान्यासं च करिष्यति।

प्रधानमन्त्रि-कार्यालयस्य अनुसारं सः २७ एप्रिल दिने अपराह्णे प्रायः त्रिवादने गङ्गटोकं प्राप्स्यति। २८ एप्रिल दिने प्रातःकाले प्रधानमन्त्री गङ्गटोकस्थितम् ऑर्किडेरियम् अवलोकयिष्यति, यत्र राज्यस्य जैविक-पुष्पीय-परम्परां प्रदर्शयितुं अत्याधुनिकः ‘स्वर्णजयंती-मैत्री-मञ्जरी-पार्कः’ विकसितः अस्ति।

ततः अनन्तरं प्रधानमन्त्री गङ्गटोकस्य पालजोर-स्टेडियम् इत्यत्र आयोजिते राज्यत्वस्य पञ्चाशत्तम-वर्ष-समारोहस्य समापन-कार्यक्रमे सहभागी भविष्यति तथा जनसभां सम्बोधयिष्यति। अस्मिन् अवसरे सः राज्यव्यापिनां चतुर्सहस्र-कोटि-रूप्यकात् अधिक-मूल्यानां परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। एताभिः परियोजनाभिः आधारभूत-संरचना, सम्पर्क-व्यवस्था, स्वास्थ्य, शिक्षा, ऊर्जा, नगरीय-विकास, पर्यावरण-संरक्षण, पर्यटनं कृषिः च इत्यादयः क्षेत्राः प्रवर्धिष्यन्ते।

ततः परं प्रधानमन्त्री नामची-जिले याङ्गाङ्ग-प्रदेशे शत-शय्या-युक्तस्य आयुर्वेद-चिकित्सालयस्य आधारशिलां स्थापयिष्यति। तथा च एनआईटी-देओराली इत्यत्र त्रिंशत्-शय्या-युक्तस्य एकीकृत-सोवा-रिग्पा-चिकित्सालयस्य उद्घाटनं करिष्यति, येन पारम्परिक-चिकित्सा-सेवाः प्रवर्धिष्यन्ते।

प्रधानमन्त्री सिक्किम-विश्वविद्यालयस्य स्थायी-परिसरस्य, नेताजी-सुभाषचन्द्र-बोस-उत्कृष्टता-विश्वविद्यालयस्य प्रशासनिक-भवनस्य, हेलेन-लेप्चा-चिकित्सा-महाविद्यालयस्य तथा डेंटम्-प्रोफेशनल-कोलेजस्य उद्घाटनं करिष्यति। अपि च मॉडल-आवासीय-विद्यालयानां, नूतन-डिग्री-कोलेजस्य तथा मठीय-छात्रावास-सह-कक्षायाः लोकार्पणं भविष्यति। राज्यस्य १६० विद्यालयेषु आईटी-आधारित-शैक्षणिक-संरचनायाः आरम्भः अपि क्रियते।

सम्पर्क-व्यवस्थां सुदृढीकर्तुं प्रधानमन्त्री तीस्ता-नद्याः उपरि द्वयोः द्वि-लेन-स्टील-आर्च-पुलयोः आधारशिलां स्थापयिष्यति तथा बिर्धाङ्ग-नामची-मार्गस्य विस्तार-सुदृढीकरण-परियोजनायाः उद्घाटनं करिष्यति। ऊर्जा-क्षेत्रे गङ्गटोक-नगरस्य प्रसारण-वितरण-जालस्य उन्नयनस्य उद्घाटनं क्रियते, येन विद्युत्-आपूर्तिः अधिक-विश्वसनीया भविष्यति।

नगरीय-विकासस्य अन्तर्गतं लुम्से-प्रदेशे जन-सेवा-सचिवालयस्य, गङ्गटोक-नगरॆ सिविल-सेवा-अधिकारी-संस्थानस्य तथा विभिन्न-आवासीय-परियोजनानां उद्घाटनं करिष्यति। अपि च एमजी-मार्गे सद्भाव-मण्डपस्य आधारशिला स्थाप्यते।

पर्यावरण-संरक्षणस्य अन्तर्गतं सिङ्गतम्-प्रदेशे सीवरेज-प्रणाल्याः पुनर्विकासः तथा गङ्गटोक-नगरॆ रानी-चू-नद्याः प्रदूषण-नियन्त्रण-परियोजनायाः उद्घाटनं भविष्यति। पर्यटन-क्षेत्रे रिज-प्रिसिङ्क्टस्य पुनर्विकासः, सोरेङ्ग-प्रदेशे इको-टूरिज्म-तीर्थ-अवसंरचना, कैलाश-मानसरोवर-यात्रया सम्बद्धाः सुविधाः यात्रि-निवासः च उद्घाट्यन्ते। तथा च ग्यालशिङ्ग-प्रदेशे इको-तीर्थ-परिसरस्य आधारशिला स्थाप्यते।

अतिरिक्तं प्रधानमन्त्री सिक्किम-इफ्को-प्रोसेसिंग-प्लाण्टस्य उद्घाटनं करिष्यति, येन कृषि-प्रसंस्करणं कृषकानां आयः च वर्धिष्यते। तथा च पाकयोंग-जिले आन्तरिक-क्रिकेट-सुविधायाः अपि लोकार्पणं करिष्यति।

---------------

हिन्दुस्थान समाचार