Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 अप्रैलमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी २८ तथा २९ एप्रिलयोः उत्तरप्रदेशस्य दौरं करिष्यति। अस्यां यात्रायां सः वाराणस्यां महिला-सम्मेलने सहभागी भविष्यति तथा प्रायः ६,३५०-कोटि-रूप्यक-परिमितानां विकास-परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। अपि च प्रधानमन्त्री हरदोई-नगरॆ ३६,२३०-कोटि-रूप्यक-व्यये निर्मितस्य गङ्गा-एक्सप्रेसवे इत्यस्य उद्घाटनं करिष्यति।
प्रधानमन्त्रिकार्यालयस्य अनुसारं सः २८ एप्रिल दिने सायं प्रायः पञ्चवादने वाराणस्यां महिला-सम्मेलने सहभागी भविष्यति तथा जनसभां सम्बोधयिष्यति। अस्मिन् अवसरे सः १,०५०-कोटि-रूप्यकात् अधिक-मूल्यानां ४८-परियोजनानां लोकार्पणं करिष्यति, यासु मार्ग-विस्तारः, रेल-उपरि-पुलाः तथा सीवेज-शोधन-केन्द्राणि प्रमुखतया सन्ति।
अतिरिक्तं सः प्रायः ५,३००-कोटि-रूप्यक-व्ययस्य ११२-अधिक-परियोजनानां आधारशिलां स्थापयिष्यति। तासु जल-आपूर्ति-योजनाः, सीवरेज-योजनाः, पञ्चशत-शय्या-युक्तः बहुविशेषज्ञ-चिकित्सालयः, पर्यटन-विकासः, घाट-पुनर्विकासः तथा विविध-प्रशासनिक-संरचनाः अन्तर्भवन्ति। अस्मिन् एव दिने प्रधानमन्त्री द्वे नूतने ‘अमृत-भारत-एक्सप्रेस’ नामके रेलयानं—वाराणसी-पुणे तथा अयोध्या-मुम्बई मार्गयोः—हरित-ध्वजेन प्रस्थापयिष्यति।
अनन्तरं २९ एप्रिल दिने प्रातःकाले प्रधानमन्त्री काशी-विश्वनाथमंदिरे दर्शनं पूजनं च करिष्यति। ततः सः हरदोईं गत्वा गङ्गा-एक्सप्रेसवे इत्यस्य उद्घाटनं करिष्यति। अस्य ५९४-किलोमीटर-दीर्घस्य एक्सप्रेसवे-मार्गस्य कारणेन मेरठ-प्रयागराजयोः मध्ये यात्राकालः १०–१२-घण्टाभ्यः न्यूनः कृत्वा प्रायः ६-घण्टाः भविष्यन्ति। अयं मार्गः द्वादश-जिलान् संयोजयन् राज्ये तीव्र-सम्पर्क-व्यवस्थां निर्मास्यति।
अस्य एक्सप्रेसवे-परियोजनायाः विशेषता शाहजहानपुर-प्रदेशे ३.५-किलोमीटर-दीर्घा आपत्कालीन-विमान-पट्टिका अस्ति, या सामरिक-दृष्ट्या अपि महत्त्वपूर्णा अस्ति। एषा परियोजना औद्योगिक-निवेशं, कृषि-आयम्, लॉजिस्टिक्स् तथा रोजगार-सृजनं च प्रवर्धयिष्यति।
---------------
हिन्दुस्थान समाचार