Enter your Email Address to subscribe to our newsletters

नवदेहली, २६ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य मासिक-रेडियो-कार्यक्रमे ‘मनः-की-बात’ इत्यस्मिन् देशे ऊर्जा-क्षेत्रेन सम्बद्धयोः द्वयोः महत्त्वपूर्णयोः उपलब्ध्योः उल्लेखं कृतवान्। तेन तमिलनाडु-राज्यस्य कलपक्कम्-स्थे फास्ट-ब्रीडर-रिएक्टर-यन्त्रेण क्रिटिकलिटी-स्थितेः प्राप्तौ वैज्ञानिकान् अभिनन्दितवान्। सह एव पवन-ऊर्जा-क्षेत्रे देशस्य उत्पादन-क्षमता ५६ गीगावाट् पर्यन्तं प्राप्ता इति उपलब्धेः अपि उल्लेखः कृतः।
प्रधानमन्त्री मोदी ‘मन-की-बात’ कार्यक्रमस्य १३३तम-प्रकरणे भारतस्य परमाणु-ऊर्जा-क्षेत्रे अस्याः महत्त्वपूर्णायाः उपलब्धेः विषये उक्तवान् यत् तस्मै मार्च २०२४ मासस्य सः क्षणः स्मर्यते, यदा सः कलपक्कम्-नगरे रिएक्टर-कोर-लोडिङ्गस्य साक्षी अभवत्।
प्रधानमन्त्री उक्तवान् यत् एषा उपलब्धिः भारतस्य परमाणु-ऊर्जा-यात्रायां ऐतिहासिकं मील-स्तम्भम् अस्ति। एषः रिएक्टरः पूर्णतया स्वदेशी-प्रौद्योगिक्या निर्मितः अस्ति, यः देशस्य वैज्ञानिक-क्षमतां आत्मनिर्भरत्वं च प्रदर्शयति।
अतिरिक्ततया प्रधानमन्त्री देशस्य विभिन्न-राज्येषु पवन-ऊर्जा-क्षमतायाः विस्तारस्य विषये अपि सूचना दत्तवान् तथा उक्तवान् यत् गत-एक-वर्षे देशेन ६ गीगावाट्-परिमिता क्षमता वर्धिता। अनेन देशस्य पवन-ऊर्जा-उत्पादन-क्षमता ५६ गीगावाट् पर्यन्तं प्राप्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता