प्रतिभया, पारदर्शितया अवसरेण च निर्मास्यते भारतं वैश्विकक्रीडाशक्तिः - अरुण सावः
रायपुरम्, 26 अप्रैलमासः (हि.स.)। केन्द्रीययुवकार्यतथाक्रीडामन्त्रालयस्य जम्मूकश्मीरस्य श्रीनगरनगरे आयोजिते क्रीडाचिन्तनशिविरस्य द्वितीयदिने अद्य छत्तीसगढराज्यस्य उपमुख्यमन्त्री तथा क्रीडायुवकल्याणमन्त्री अरुणसाव ‘गुड् गवर्नन्स् इन स्पोर्ट्स्’ इति
चिंतन शिविर के दूसरे दिन केन्द्रीय युवा कार्य और खेल मंत्री डॉ. मनसुख मांडविया एवं अरुण साव


रायपुरम्, 26 अप्रैलमासः (हि.स.)।

केन्द्रीययुवकार्यतथाक्रीडामन्त्रालयस्य जम्मूकश्मीरस्य श्रीनगरनगरे आयोजिते क्रीडाचिन्तनशिविरस्य द्वितीयदिने अद्य छत्तीसगढराज्यस्य उपमुख्यमन्त्री तथा क्रीडायुवकल्याणमन्त्री अरुणसाव ‘गुड् गवर्नन्स् इन स्पोर्ट्स्’ इति विषयकस्य सत्रस्य अध्यक्षतां कृतवान्। अस्मिन् अवसरॆ सः उक्तवान् यत् प्रतिभा पारदर्शिता तथा अवसरैः एव भारतं वैश्विकक्रीडाशक्ति भविष्यति।

अस्मिन् काले सावमहाशयेन छत्तीसगढस्य क्रीडायोजनानां तथा भविष्यरणनीतिनां विषये श्रेष्ठप्रक्रियाधारितं दृश्यप्रस्तुतीकरणम् अपि कृतम्। शिविरस्य समापनसत्रे केन्द्रीययुवकार्यतथाक्रीडामन्त्री डॉ मनसुखमाण्डविय घोषितवान् यत् शीघ्रमेव केवलं युवकार्येषु केन्द्रितः विशेषः चिन्तनशिविरम् आयोजितं भविष्यति।

सावमहाशयेन विभिन्नराज्येभ्यः आगतैः क्रीडामन्त्रिभिः अधिकारिभिः च समक्षं छत्तीसगढे क्रीडानां क्रीडकानां च विकासाय प्रवर्तिताः श्रेष्ठशासनप्रक्रियाः विस्तरेण प्रस्तूताः। तेन अन्यराज्येभ्यः अपि सुझावाः स्वीकृताः। शिविरे उपस्थिताः प्रतिनिधयः छत्तीसगढस्य भावियोजनाः प्रशंसन्तः ताः प्रभावी आदर्शरूपेण स्वीकृतवन्तः।

द्विदिनात्मकस्य अस्य चिन्तनशिविरस्य काले सावमहाशयः विभिन्नराज्यानां क्रीडामन्त्रिभिः अन्ताराष्ट्रियक्रीडकैः सह संवादं कृत्वा महत्त्वपूर्णविषयेषु चर्चा कृतवान्। सः क्रीडानां प्रोत्साहने दृढां प्रतिबद्धतां पुनरुक्तवान् तथा छत्तीसगढे उत्तमक्रीडाअवसंरचना प्रतिभाविकासः तथा क्रीडकानां अधिकअवसरप्रदानं प्रति बलं दत्तवान्।

सः अवदत् यत् सुदृढा क्रीडाव्यवस्था तथा प्रोत्साहनम् एव देशस्य ओलम्पिकक्रीडासु महान् सफलतां दास्यति। अस्य चिन्तनशिविरस्य माध्यमेन छत्तीसगढे देशे च क्रीडानां समग्रविकासः सुदृढा क्रीडाव्यवस्था तथा क्रीडकानां राष्ट्रीयअन्तर्राष्ट्रीयस्तरे उत्कृष्टप्रदर्शनाय नूतना दिशा प्रदास्यते इति सः आशां व्यक्तवान्।

द्वितीयदिने अपि विभिन्नेषु सत्रेषु क्रीडाप्रशासनं नीतिगतसंशोधनम् तथा युवकार्याणि इत्यादिषु विषयेषु विस्तृता चर्चा अभवत्। अस्मिन् सन्दर्भे राज्येषु क्रीडासामग्रीनिर्माणम् सरकारीयोजनाः तथा स्पोर्ट्सस्टार्टअप्स् इत्येषां प्रोत्साहनम् अपि चर्चितम्। भारते एव अन्ताराष्ट्रियस्तरस्य क्रीडाउपकरणनिर्माणस्य आवश्यकता विशेषतः प्रतिपादिता येन देशस्य क्रीडाउद्योगः आत्मनिर्भरः भवेत्।

अद्य अन्यस्मिन् महत्त्वपूर्णे सत्रे चयननीतौ तथा आयुवंचनायां च अपि विशेषचर्चा अभवत्। अस्मिन् क्रीडकानां चयनप्रक्रियायां पारदर्शिता निष्पक्षता तथा स्पष्टमापदण्डानां सुनिश्चितता उपरि बलं दत्तम्। आयुभ्रष्टाचारनिवारणाय कठोरसत्यापनप्रक्रियाः तथा प्रौद्योगिकीउपायाः आवश्यकाः इति अपि उक्तम् येन क्रीडाक्षेत्रे ईमानदारी विश्वसनीयता च स्थिरा भवेत्।

अन्तिमसत्रं मायभारत इति योजनानां कार्ययोजनायाः च विषये केन्द्रितम् आसीत्। अस्मिन् क्रीडानां सह युवकार्याणां सममहत्त्वं निर्दिश्य केन्द्रसरकारेण क्रियमाणाः प्रयत्नाः प्रकाशिताः। योजनानां प्रभावीप्रचारप्रसारस्य आवश्यकता अपि प्रतिपादिता येन अधिकाधिकयुवानः लाभं प्राप्नुयुः।

अस्मिन् द्विदिनात्मकचिन्तनशिविरे देशस्य प्रसिद्धाः क्रीडकाः ओलम्पियन अभिनवबिन्द्रा पुलेलागोपिचन्द तथा गगननारङ्ग तथा क्रीडाप्रशासकाः नीतिनिर्मातारः च बहुसंख्यया सहभागिनोऽभवन्।

____________________

हिन्दुस्थान समाचार