Enter your Email Address to subscribe to our newsletters

सुपौलनगरम्, २६ अप्रैलमासः (हि.स.)। बिहार-राज्य-विधिक-सेवा-प्राधिकरणं, पटनायाः आदेशानुसारं तथा जनपद-विधिक-सेवा-प्राधिकरणस्य सचिवः मो.अफजल-आलमस्य निर्देशेन रविवासरे सदर-प्रखण्डस्य महेशपुर-ग्रामे (वार्ड-१) जनजागरूकता-कार्यक्रमः आयोजितः अभवत्।
कार्यक्रमे नालसा (मानसिक-रोगयुक्त-व्यक्तिनां तथा बौद्धिक-विकलाङ्गतान्वितानां कृते विधिक-सेवा-योजना, २०२१) इत्यस्य उद्देश्य-विषये विस्तरेण सूचना प्रदत्ता। अस्याः योजनायाः मुख्योद्देश्यम् अस्ति यत् दिव्याङ्गबालकानां तथा विशेष-आवश्यकतायुक्तानां व्यक्तीनां कृते निःशुल्का, सुलभा तथा सक्षमा विधिक-सेवा उपलब्धा भवेत्।
अस्मिन् अवसरे तेषां विधिक-अधिकाराणां, संरक्षणस्य तथा न्यायालयीय-प्रक्रियाणां विषये जनजागरणं कृतम्, येन ते न्यायप्राप्तौ अधिकं सशक्ताः भवन्ति। योजनायां विशेष-पैनल-अधिवक्तार: तथा पैरा-लीगल-स्वयंसेवकाः अपि सम्मिलिताः सन्ति, ये लाभार्थिनः सहायतां कुर्वन्ति।
कार्यक्रमे इदमपि स्पष्टीकृतं यत् अस्याः योजनायाः प्रमुखोद्देश्यः दिव्याङ्गबालकानां कृते सुरक्षा, समानता तथा न्यायप्राप्तेः सुलभतां सुनिश्चितं कर्तुम् अस्ति।
अधुना एषा योजना २०२४ वर्षे अधिक-व्यापक-रूपेण “बाल-अनुकूल-विधिक-सेवा-योजना” इत्यनेन एकीकृता अभवत्, यया दिव्याङ्गबालकानां कृते विशेष-प्रावधानानि यथावत् संरक्षितानि सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता