Enter your Email Address to subscribe to our newsletters


देवरिया, 26 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य परिवहनराज्यमन्त्री स्वतन्त्रप्रभारः दयाशंकरसिंह रविवासरे उक्तवान् यत् लोकसभायां नारीशक्तिवन्दनसम्बद्धस्य महिलाआरक्षणविधेयकस्य विरोधं कृत्वा काङ्ग्रेससमेतसम्पूर्णविपक्षः भारतीयनार्याः अपमानं कृतवान्। तेन विधेयकस्य अपारितत्वे गम्भीरा चिन्ता व्यक्ता तथा तत् दुर्भाग्यपूर्णम् इति उक्तम्।
प्रदेशस्य परिवहनमन्त्री दयाशंकरसिंह रविवासरे देवरियाजनपदे विकासभवनस्थिते सभागारे पत्रकारसम्मेलनं कृतवान्।
तेन उक्तं यत् एतत् केवलं विधायिकप्रक्रियायाः विषयः नास्ति अपि तु महिलानामधिकारैः तासां सहभागितया च सम्बद्धं महत्त्वपूर्णं विषयम् अस्ति।
मन्त्रिणा स्पष्टतया उक्तं यत् मोदीयोगीसरकारः महिलासशक्तिकरणाय प्रतिबद्धा अस्ति तथा अस्यां दिशि सर्वे सम्भवप्रयत्नाः क्रियन्ते।
परिवहनमन्त्री अग्रे उक्तवान् यत् महिलाआरक्षणसम्बद्धस्य विधेयकस्य उद्देश्यं समाजे महिलानां अधिकप्रतिनिधित्वं अधिकारप्रदानं च अस्ति। अतः अस्य अपारितत्वं निश्चयेन चिन्ताजनकम् अस्ति। सः अवदत् यत् लोकतन्त्रे प्रत्येकविधेयके विस्तृता चर्चा आवश्यकाऽस्ति किन्तु जनहितसम्बद्धेषु विषयेषु सकारात्मकनिर्णयः अपि आवश्यकः। तेन आशा व्यक्ता यत् भविष्ये अस्मिन् विषये सहमति भविष्यति तथा विधेयकं पारितं भविष्यति।
मन्त्रिणा विपक्षं प्रति अपि कटाक्षः कृतः यत् केचन राजनीतिककारणैः महत्त्वपूर्णविधेयकेषु विलम्बः भवति येन सामान्यजनानां विशेषतः महिलानां हितानि प्रभावितानि भवन्ति। तथापि सः अपि उक्तवान् यत् सर्वकारः सर्वैः पक्षैः सह संवादं स्थापयितुं इच्छति तथा अस्मिन् विषये अपि संवादेन समाधानं अन्वेषयिष्यति।
तेन उक्तं यत् प्रदेशसर्वकारः पूर्वमेव महिलानां सुरक्षा शिक्षारोजगारक्षेत्रेषु अनेकाः योजनाः चालयति। परिवहनविभागे अपि महिलाभ्यः विशेषसुविधाः अवसराः च वर्ध्यन्ते येन ताः आत्मनिर्भराः भवितुं शक्नुवन्ति।
सरकारः महिलाहितसम्बद्धान् अन्यान्प्रस्तावान् अग्रे नेतुं पूर्णतया सज्जा अस्ति।---------
हिन्दुस्थान समाचार