अमेरिकिनि व्हाइट हाउसभवने कॉरेस्पोंडेंट्सरात्रिभोजे चलिता गोली, राष्ट्रपति ट्रंपः पूर्णतया सुरक्षितः
वाशिंगटनम्, 26 अप्रैलमासः (हि.स.)।वाशिंगटन डीसी नगरे शनिवासरसायं अभेद्यसुरक्षाव्यवस्थायाः मध्ये प्रचलितस्य ‘व्हाइट हाउस कॉरेस्पोंडेंट्स डिनर’ नाम्नः कार्यक्रमस्य समये कार्यक्रमस्थलस्य बहिः गोलीकाण्डे जाते महान् कोलाहलः अभवत्। सीक्रेट सर्विस-एजेन्टा
bf7003dbbaf4adf1866292e9bfabd5e2_1413504388.jpg


740d2af8a3f227db5af8c57788adeb6d_156972064.jpg


वाशिंगटनम्, 26 अप्रैलमासः (हि.स.)।वाशिंगटन डीसी नगरे शनिवासरसायं अभेद्यसुरक्षाव्यवस्थायाः मध्ये प्रचलितस्य ‘व्हाइट हाउस कॉरेस्पोंडेंट्स डिनर’ नाम्नः कार्यक्रमस्य समये कार्यक्रमस्थलस्य बहिः गोलीकाण्डे जाते महान् कोलाहलः अभवत्। सीक्रेट सर्विस-एजेन्टाः तत्क्षणमेव राष्ट्रपतिं डोनाल्ड ट्रंप सुरक्षितरूपेण बहिः नीतवन्तः। ट्रंप महोदयः पूर्णतया सुरक्षितः अस्ति। अस्मिन् गोलीकाण्डे एकः एजेन्टः आहतः अभवत्। एषः डिनर-कार्यक्रमः वाशिंगटन हिल्टन होटल इत्यस्य बॉलरूम-प्राङ्गणे आयोजितः आसीत्।

सीबीएस न्यूज तथा अल जजीरा इत्ययोः प्रतिवेदनानुसारं गोलीप्रहारस्य आरम्भे एव डोनाल्ड ट्रंप तस्मात् स्थलात् शीघ्रं निष्कासितः। वार्षिकमाध्यम-कार्यक्रमस्य आरम्भात् पूर्वमेव राष्ट्रपतिः प्रथममहिला मेलानिया ट्रंप च बॉलरूमे उपस्थितौ आस्ताम्। ट्रंप महोदयः स्वस्य ‘ट्रुथ सोशल’ इत्यस्मिन् लेखे अवदत् यत् सः शीघ्रमेव ‘व्हाइट हाउस’ इत्यस्मात् पत्रकारसम्मेलनं करिष्यति। सः लिखितवान्—“अहं, प्रथममहिला, उपराष्ट्रपतिः, मन्त्रिमण्डलस्य सर्वे सदस्याः च पूर्णतया सुरक्षिताः स्मः। मया कार्यक्रमस्य प्रभारीभिः सह वार्ता कृता अस्ति। डिनरः त्रिंशद्दिनान्तरं पुनः आयोजितः भविष्यति।”

ट्रंप महोदयः सीक्रेट सर्विस-एजेन्टानां विधिपालनसंस्थाभ्यश्च प्रशंसां कृतवान्। सः उक्तवान्—“एते सर्वे वीराः सन्ति। आक्रमणकर्ता गृहीतः अस्ति।” प्राप्तेषु दृश्यसामग्रीषु दृश्यते यत् गोलीशब्दं श्रुत्वा ट्रंप महोदयः अन्ये च उपस्थिताः जनाः स्वस्वपीठानां पृष्ठतः अवनम्य स्थितवन्तः, “अधः नमन्तु” इति घोषं कुर्वन्तः। ततः अनन्तरं एजेन्टाः ट्रंपं शीघ्रं तस्मात् स्थलात् दूरं नीतवन्तः, कार्यक्रमस्थलं च सर्वतः आवृतवन्तः।

डिनर-समारोहे आमन्त्रितः क्रिस शेरिडन (अल जजीरा-पत्रकारः) अवदत् यत् सः बॉलरूमस्य बहिः पञ्च गोलीनां शब्दान् अशृणोत्। “वयं तत्क्षणमेव भूमौ शयानाः अभवाम। मम पृष्ठतः एव गोलीप्रहारः अभवत्, प्रवेशद्वारस्य समीपे,” इति तेन उक्तम्। अधिकारिभिः सूचितं यत् सन्दिग्धः गृहीतः अस्ति। एषा घटना रात्रौ प्रायः ८:३० वादने अभवत्। अधिकारिणः अवदन् यत् डोनाल्ड ट्रंप अधुना व्हाइट हाउस इत्यत्र वर्तते।

राष्ट्रपतिः स्वस्य ‘ट्रुथ सोशल’ इत्यत्र उक्तवान् यत् सः पत्रकारसम्मेलनं करिष्यति। व्हाइट हाउसस्य प्रेस-सचिवा कैरोलिन लेविट अपि एतत् अनुमोदितवती यत् ट्रंप महोदयः ब्रीफिंग-रूमात् एव संबोधितुं गमिष्यति। सूत्रैः उक्तं यत् सन्दिग्धेन पञ्चात् अष्टपर्यन्तं गोल्यः क्षिप्ताः। सः सन्दिग्धः बन्दूकधारी चिकित्सालये प्रविष्टः अस्ति।

‘व्हाइट हाउस कॉरेस्पोंडेंट्स डिनर’ इत्यस्य अध्यक्षा तथा सीबीएस न्यूज-पत्रकारा वेइजिया जियांग उक्तवती यत् डोनाल्ड ट्रंप पूर्णतया कुशलः अस्ति, शीघ्रमेव पत्रकारसम्मेलनं करिष्यति। सा अवदत् यद्“ईश्वरस्य अनुग्रहात् वयं सर्वे सुरक्षिताः स्मः। अद्य रात्रौ एकत्र समागत्य धन्यवादाः; पुनः मिलामः।”

---------------

हिन्दुस्थान समाचार