Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २६ अप्रैलमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य (बीएचयू) चिकित्साविज्ञान-संस्थानस्य अस्थिशल्य-चिकित्सा-विभागस्य प्रो. डॉ.शिवम-सिन्हः नवदेहल्याः एरोसिटी-स्थले आयोजिते अष्टमे एओपीएएस-सम्मेलने विश्वविद्यालयस्य प्रतिनिधित्वं कृतवान्। एशिया-ओशिनिया-पेल्विक-एण्ड-एसीटाबुलर-सोसाइटी (एओपीएएस्) सम्मेलनस्य अन्तर्गतं फैकल्टी-रूपेण प्रो.शिवम-सिन्हा इत्यनेन “पोस्टेरियर-एसीटैब्युलर-फ्रैक्चर-डिस्लोकेशन” इत्यस्य आकलनं तथा स्थिरीकरणं विषयीकृत्य व्याख्यानं प्रस्तुतम्, यत् अत्यन्तम् अन्तरक्रियात्मकं विचारोत्तेजकं च आसीत्। अस्मिन् सत्रे देश-विदेशयोः विशेषज्ञानां सक्रिय-सहभागिता आसीत्।
एषा सूचना रविवासरे बीएचयू-जनसम्पर्क-कार्यालयेन प्रदत्ता। सूचितं यत् अस्मिन् सम्मेलने अन्ताराष्ट्रिय-ख्यातिप्राप्ताः विशेषज्ञाः—रोमान्-फाइफर (स्विट्ज़रलैण्ड), आचार्य-इन्दर-गिल:, निर्भय-करंदीकर: तथा एम.एल.-चिप-राउट्-जूनियर (अमेरिका)—भागं गृहीतवन्तः। अयं मंचः विचाराणां आदान-प्रदानाय, प्रकरण-चर्चायै तथा नवीन-शल्य-प्रविधीनां उन्नयनाय अत्यन्तं उपयोगी अभवत्।
प्रो.सिन्हा-इत्यनेन विभिन्नैः विशेषज्ञैः सह संवादं कृत्वा स्वानुभवान् अपि उक्तवान् तथा पेल्विक-एण्ड-एसीटाबुलर-आघात-प्रबन्धने नूतनाः सूचनाः प्राप्ताः। तेन एतत् सम्मेलनं अत्यन्तं ज्ञानवर्धकं प्रेरणादायकं च इति उक्तम्। अस्य सम्मेलनस्य आयोजनं डॉ. विवेक-त्रिखा, डॉ.समर्थ-मित्तल: तथा डॉ. विजय-शर्मा इत्येतेषां द्वारा जेपीएन-एपेक्स-ट्रॉमा-केन्द्रे, एम्स्-आश्रये कृतम्। प्रो. सिन्हा-इत्यनेन अग्रिमवर्षे लखनऊ-नगर्यां आयोजिते एशिया-ओशिनिया-पेल्विक-एण्ड-एसीटाबुलर-सोसाइटी-सम्मेलने सहभागितायाः अपि इच्छा व्यक्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता