Enter your Email Address to subscribe to our newsletters

नदियानगरम्, २६ अप्रैलमास: (हि.स.)। पश्चिमबङ्ग-राज्यस्य निर्वाचन-प्रचार-अवसरे जनपदस्य राणाघाट-क्षेत्रे केन्द्रीय-गृहमन्त्री अमित-शाहः जनसभां सम्बोधितवान्। सः उक्तवान् यत् प्रथम-चरणे सम्पन्नस्य बृहत्-मतदानस्य आधारेण एव राज्ये परिवर्तनस्य संकेतः प्राप्तः अस्ति। सः अवदत् यत् प्रथम-चरणस्य मतदानेन ममता-बनर्जी-सर्वकारस्य पराजयः स्पष्टः दृश्यते, तथा १५१-आसनानां मध्ये प्रायः ११०-आसनेषु भारतीय-जनता-पक्षः प्रचण्ड-बहुमतेन विजयमार्गे अग्रे गच्छति।
सः उक्तवान् यत् द्वितीय-चरणस्य मतदानं शेषं कार्यं पूर्णं करिष्यति तथा राज्ये भाजपायाः सर्वकार-निर्माणस्य मार्गं प्रशस्तं करिष्यति।
सभायां उपस्थितान् मातृशक्तिं सम्बोधयन् सः अवदत् यत् भाजपा-सर्वकारे स्थापिते सति महिलानां धनागारेषु प्रतिमासं त्रि-सहस्र-रूप्यकाणि प्रेषयिष्यन्ते। बेरोजगार-यूनाम् अपि त्रि-सहस्र-रूप्यकाणां आर्थिक-सहायता धनागारेषु प्रदास्यते इति सः उक्तवान्।
सः इदमपि अवदत् यत् सर्वकारी-बस-यान-सेवायां मातृभ्यः बहुभ्यः महिलाभ्यः चिटिका न आवश्यकी भविष्यति, ता: निःशुल्कं यात्रां कर्तुं शक्नुवन्ति। स्नातक-पूर्ण-कृतवतीभ्यः बालिकाभ्यः पञ्चाशत्-सहस्र-रूप्यकाणां सहायता दीयेत इति सः घोषितवान्। तथैव ये बेरोजगार-युवकाः उद्योग-स्थापनं इच्छन्ति, तेषां कृते पञ्चदश-लक्ष-रूप्यक-पर्यन्तं ऋण-व्यवस्था भाजपायाः शासनकाले भविष्यति इति सः उक्तवान्।
केन्द्रीय-गृहमन्त्री आरोपितवान् यत् ममता-बनर्जी-पक्षेण सम्पूर्णे बंग-प्रदेशे अवैधप्रवेशका: आश्रिताः सन्ति, अतः राज्यं घुसपैठ-मुक्तं कर्तुं आवश्यकम् अस्ति। सः अवदत् यत् एते अवैधप्रवेशकानां जनानां रोजगारं हृत्वा जनान् दारिद्र्ये नयन्ति।
सः इदमपि उक्तवान् यत् ममता-बनर्जी अस्मान् प्रति नाराजां भवति, यतः अवैधप्रवेशकानां नामानि प्रकाश्यन्ते। सः अवदत् यत् अधुना केवलं नामानि प्रकाश्यन्ते, किन्तु यदि शासनं दत्तं भविष्यति तर्हि भाजपया प्रत्येकः अवैधप्रवेशक: चयनपूर्वकं निष्कासितः भविष्यति।
अन्ते सः आरोपितवान् यत् ममता-बनर्जी मतुआ-समाजस्य केषाञ्चन जनानां नामानि मतदाता-सूच्याः विलोपितवती। सः आश्वासनं दत्तवान् यत् भाजपायाः सर्वकारे स्थापिते सति सर्वेषां पात्र-नागरिकाणां नामानि पुनः मतदाता-सूच्यां संयोजितानि भविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani