Enter your Email Address to subscribe to our newsletters

हुगलीनगरम्, २६ अप्रैलमास: (हि.स.)। पश्चिमबङ्ग-राज्यस्य हुगली-जनपदस्य हरिपाल-क्षेत्रे भारतीय-जनता-पक्षस्य वरिष्ठः नेता प्रधानमन्त्री नरेन्द्रमोदी च रविवासरे निर्वाचन-जनसभां सम्बोधितवान्। सः तृणमूल-काङ्ग्रेस-पक्षं प्रति तीव्रम् आक्रमणं कृत्वा भाजपायाः पक्षे अधिकतम-मतदानाय आह्वानम् अकरोत्। ठाकुरनगर-स्थले प्रथमसभायाः अनन्तरं सः हरिपालं प्राप्तवान्, यत्र राज्य-भाजपा-नेतृत्वेन पुष्पमालाभिः सः ससम्मानं स्वागतम् अकरोत्।
प्रधानमन्त्री मोदी स्वभाषणे बंगाल-राज्यस्य महापुरुषान् राजा राममोहन-रायम् तथा रामकृष्ण-परमहंसम् इत्यादीन् स्मृतवान्। सः उक्तवान् यत् प्रथम-चरणे मतदानस्य कीर्तिमानं भग्नम् अस्ति, २९ अप्रैल-दिने भविष्यति च द्वितीय-चरणे तत् अधिकं वर्धनीयम्।
राज्य-सर्वकारं प्रति आक्रमणं कुर्वन् सः अवदत्— “नवान्नात् सर्वकारं न चलति, अपि तु तृणमूलस्य दस्यूभि: शासनं क्रियते।” सः आरोपितवान् यत् राज्य-सर्वकारेण जनानां विश्वासः नष्टः कृतः, येन जनाः पुनः पुनः न्यायालयानां शरणं गच्छन्ति।
शिक्षा-वंचनस्य उल्लेखं कुर्वन् प्रधानमन्त्री उक्तवान् यत् तृणमूल-पक्षस्य मन्त्रिणः सहस्रशः यूनां भविष्यं नाशितवन्तः। यदि सर्वकारः संवेदनशील: अभविष्यत् तर्हि निष्पक्ष-अनुसन्धानं कारयिष्यत्, किन्तु न्यायालयस्य हस्तक्षेपः आवश्यकः अभवत्। सः २०२३-निर्वाचन-पञ्चायतस्य उदाहरणं दत्त्वा उक्तवान् यत् कानून-व्यवस्थायाः अवस्था एवम् दुष्टा आसीत् यत् न्यायालयेन केन्द्रीय-बलानां नियुक्तेः आदेशः दत्तः।
प्रधानमन्त्री संदेशखाली-इत्यादिनां घटनानां उल्लेखं कृत्वा महिला-सुरक्षां प्रति राज्य-सर्वकारं प्रश्नं कृतवान्। सः अवदत् यत् भाजपा महिला-सुरक्षायाः सम्मानस्य च कृते प्रतिबद्धा अस्ति, तथा सत्ता-प्राप्त्यनन्तरं दोषिणां विरुद्धं कठोर-कार्यवाही भविष्यति।
कृषक-प्रश्नेषु भाषमाणः सः उक्तवान् यत् केन्द्र-सर्वकारेण जूट-उत्पादस्य न्यूनतम-समर्थन-मूल्यं द्विगुणीकृतम् अस्ति तथा तस्य उपयोगः वर्धितः, किन्तु राज्य-सर्वकारेण उद्योगानां विकासः न अनुमतः। सः आरोपितवान् यत् राज्ये “सिण्डिकेट-राजः” प्रबलः अस्ति, यः कृषकान् अल्पमूल्येन अन्नं क्रीत्वा उच्चमूल्येन विक्रीणाति।
प्रधानमन्त्री महिलाभ्यः विभिन्नाः घोषणाः कुर्वन् उक्तवान् यत् ७५ लक्ष-महिलाभ्यः आर्थिक-सहायता प्रदास्यते, येन तासां वार्षिक-आयः एक-लक्ष-रूप्यकात् अधिका भविष्यति। सः इदमपि अवदत् यत् महिलाः २० लक्ष-रूप्यकपर्यन्तं ऋणं प्राप्तुं शक्नुवन्ति, यस्य गारण्टीति सर्वकारेण दास्यते।
अन्ते प्रधानमन्त्री नरेन्द्रमोदी नेतासुभाषचन्द्रबोसस्य स्मरणं कृत्वा जनान् भाजपायाः पक्षे मतदानाय आह्वानं कृतवान् तथा उक्तवान् यत् एतत् निर्वाचनं “जंगलराज-भ्रष्टाचार-जीविकाहीनतावैधप्रवेशेभ्यः” मुक्तेः अवसरः अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani