Enter your Email Address to subscribe to our newsletters

नवदेहली, २६ अप्रैलमास: (हि.स.)। अस्मिन् वर्षे देशे ३.३४ कोटि-हेक्टेयर-परिमिते क्षेत्रे गोधूम-बीजानां वपनानन्तरं, उत्तम-कृषि-प्रबन्धनस्य तथा उन्नत-प्रजातिनां प्रयोगस्य कारणेन, ऋतो: प्रतिकूलतायाः अपि सत्त्वे गोधूम-उत्पादनं समग्रतया श्रेष्ठतरं जातम्। फाल्गुनमासे अत्यधिक-तापमानात्, असमय-वृष्टेः तथा ओलावृष्टेः च प्रभावेण सहापि, हरियाणा-राज्ये ५६.१३ लक्ष-मीट्रिक-टन-परिमिता क्रय-प्राप्तिः अभवत्, मध्यप्रदेशे च क्रय-लक्ष्यं वर्धयित्वा १०० लक्ष-मीट्रिक-टन-पर्यन्तं कृतम्, महाराष्ट्रे च २२.९० लक्ष-टन-उत्पादनस्य अनुमानः अस्ति, यत् उत्तम-उत्पादनं सूचयति।
केंद्रीय-कृषि-तथा-कृषक-कल्याण-मन्त्रालयेन उक्तं यत् अस्मिन् वर्षे प्रायः ३.३४ कोटि-हेक्टेयर-परिमिते क्षेत्रे गोधूमस्य वपनं कृतम्, यत् गतवर्षेण सह तुलनायां अधिकम् अस्ति। सम्पूर्णे ऋतौ सस्ये कस्यापि महत् कीट-रोग-प्रकोपः न दृष्टः।
मन्त्रालयस्य अनुसारं, फाल्गुनमासे असामान्य-उच्च-तापमानात् फसले ऊष्मा-प्रकोप: (हीट-स्ट्रेस्) जातः, येन दान-परिपूर्णता-कालः प्रभावितः अभवत्। तदतिरिक्तं, केषुचित् क्षेत्रेषु असमय-वृष्ट्या तथा ओलावृष्ट्या स्थानीय-स्तरे क्षतिसम्भावना अपि आसीत्।
तथापि, बहूनि सकारात्मक-कारकाणि एतेषां प्रतिकूल-प्रभावान् समतोलितवन्तः। समयपूर्व-वपनम्, अधिक-क्षेत्रे कृषिः, उन्नत-तथा-जलवायु-सहनशील-प्रजातीनां प्रयोगः, तथा खरपतवार-कीट-प्रकोपस्य न्यूनता च उत्पादनस्य स्थैर्ये सहायकाः अभवन्।
क्रय-आङ्काः अपि उत्तमां स्थितिं दर्शयन्ति। हरियाणा-राज्ये गोधूम-आगमनं सर्वकारी-लक्ष्यं अतिक्रम्य, क्रये उल्लेखनीया वृद्धि: अभवत्। मध्यप्रदेशे उच्च-उत्पादन-अनुमानात् क्रय-लक्ष्यस्य वृद्धिः कृता, महाराष्ट्रे च उत्पादनस्य स्थिर-वृद्धिः दृश्यते।
मन्त्रालयेन उक्तं यत् स्थानीय-स्तरे किञ्चित् प्रभावेभ्यः परं देशे गोधूम-उत्पादनस्य समग्र-स्थिति: सन्तोषजनका सुदृढा च अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता