Enter your Email Address to subscribe to our newsletters

चण्डीगढनगरम्, २६ अप्रैलमास: (हि.स.)। पंजाब-सर्वकारेण आम-आदमी-पक्षं त्यक्त्वा भारतीय-जनता-पक्षं गतानां राज्यसभा-सांसदानां विरुद्धं कठोर-कार्यवाही आरब्धा अस्ति। रविवासरे पंजाब-सरकारेण क्रिकेटर-तथा राज्यसभा-सांसदः हरभजन-सिंह-भज्जी इत्यस्य राज्य-आरक्षक-दत्त-रक्षा प्रत्याहृता।
अल्पकालानन्तरं केन्द्र-सर्वकारेण तस्मै सीआरपीएफ-बलस्य सुरक्षा प्रदत्ता। तदनन्तरं तस्य निवास-गृहस्य बहिः सीआरपीएफ-सैनिका: सज्जताः कृताः।
भज्जीतः पूर्वं अपि पंजाब-सर्वकारेण राज्यसभा-सांसदः राघव-चड्ढा इत्यस्य सुरक्षा प्रत्याहृता आसीत्। हरभजन-सिंहाय राज्यसभा-सांसदत्वेन ‘वाई-श्रेणी’ सुरक्षा पंजाब-आरक्षकविभागेन प्रदत्ता आसीत्, या अधुना निष्कासिता।
अस्मिन् निर्णयानन्तरं केन्द्र-सर्वकारेण तस्मै त्वरितं सीआरपीएफ-सुरक्षा प्रदत्ता इति दृश्यते।
अपरतः राज्यसभा-सांसदः विक्रमजीत-साहनी इत्यनेन उक्तं यत् सः कदापि आम-आदमी-पक्षं न प्रविष्टः, तथा केजरीवालेन तस्मात् त्यागपत्रं याचितम् आसीत् किन्तु सः न दत्तवान्। सः उक्तवान् यत् पंजाब-राज्यम् अस्मिन् समये गम्भीर-स्थितौ (आईसीयू-स्थितिः) अस्ति, तस्य रक्षणाय केन्द्र-सर्वकारस्य सहयोगः आवश्यकः।
तस्मिन् एव समये चण्डीगढ़-नगर्यां आम-पक्षस्य राज्यसभा-सांसदः सन्त-बलवीर-सिंह-सीचेवालः उक्तवान् यत् राघव-चड्ढा ‘स्वतन्त्र-समूह’ निर्माणस्य विषये तं चाय-संवादाय आमन्त्रितवान् आसीत्, किन्तु सः तत्र न गतवान् तथा तादृश-समूह-निर्माणं वा सहभागं वा अस्वीकारितवान् इति।
हिन्दुस्थान समाचार / अंशु गुप्ता