Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 अप्रैलमासः (हि.स.)।
भारतीय राष्ट्रिय कांग्रेस उत्तरप्रदेशस्य गाजीपुर जनपदे विश्वकर्मसमुदायस्य युवत्याः संदिग्धमृत्युम् अधिकृत्य पीडितपरिवारस्य साक्षात्कारार्थं प्रतिनिधिमण्डलं प्रेषयितुं घोषणा कृतवती। अस्य विषये अखिल भारतीय कांग्रेस कमेटी ओबीसी विभागस्य अध्यक्षः डॉ. अनिल जयहिन्दः गाजीपुरस्य पुलिस-अधीक्षकाय पत्रं लिखित्वा सुरक्षाव्यवस्थां सुनिश्चितां कर्तुं निवेदनं कृतवान्।
भारतीय राष्ट्रिय कांग्रेस उक्तवती यत् प्रतिनिधिमण्डले एकविंशतिः सदस्याः भविष्यन्ति। एते सर्वे २७ एप्रिल् दिने गाजीपुर आगमिष्यन्ति। घटनास्थलस्य अपि अवलोकनं करिष्यन्ति।
प्रतिनिधिमण्डले डॉ. अनिल जयहिन्दः, राजेंद्र पाल गौतम, अजय कुमार लल्लू, सुभाषिनी बुंदेला, जितेन्द्र बघेल, सांसद तनुज पुनिया, सांसद राकेश राठौर, राज्यसभासदस्यः कर्मवीर सिंह बौद्धः, मनोज यादवः, विधायकः वीरेंद्र चौधरी, पूर्वसांसदः रवि प्रकाश वर्मा इत्यादयः समाविष्टाः सन्ति।
प्रतिनिधिमण्डलस्य केचन सदस्याः अद्य दिल्ली नगरीतः वाराणसी प्रति विमानयात्रां करिष्यन्ति तथा रात्रौ पुनः प्रत्यागमिष्यन्ति।
---------------
हिन्दुस्थान समाचार