Enter your Email Address to subscribe to our newsletters

भारतस्य इतिहासे २८ अप्रैलमासः एकः महत्त्वपूर्णः उपलब्धि-दिवसः रूपेण अभिलेखितः अस्ति। अस्मिन् एव दिने २००८ वर्षे भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनेन (इसरो) अन्तरिक्ष-क्षेत्रे नूतनं इतिहासं निर्माय एकस्मिन् समये दश उपग्रहाणां सफलं प्रक्षेपणं कृतम्। एतत् अभियानं पी.एस.एल.वी.-सी९ नामक-रॉकेट-माध्यमेन सम्पन्नम्, येन भारतस्य प्रौद्योगिकी-क्षमता विश्वसनीयता च वैश्विक-स्तरे प्रतिष्ठिता।
अस्य ऐतिहासिक-अभियानस्य विशेषता आसीत् यत् अस्मिन् द्वौ भारतीय-उपग्रहौ तथा अष्टौ विदेशीय-उपग्रहाः आसन्। विदेशीय-उपग्रहाः कनाडा, डेनमार्क, जर्मनी, जापान, नीदरलैण्ड इत्यादिभ्यः देशेभ्यः आसन्। एकस्मिन् समये एतावतां उपग्रहाणां प्रक्षेपणं तस्मिन् काले विश्व-अभिलेखं स्थापितवान्, भारतं च अन्तर्राष्ट्रीय-अन्तरिक्ष-विपणे शक्तिशाली-सहभागीरूपेण प्रतिष्ठापितवान्।
एतत् प्रक्षेपणम् आन्ध्रप्रदेशे श्रीहरिकोटा-स्थितात् सतीश-धवन-अन्तरिक्ष-केन्द्रात् (एसडीएससी-शार) कृतम्। अस्य सफलतया भारतस्य अन्तरिक्ष-प्रौद्योगिक्याः सूक्ष्मता कार्यदक्षता च प्रमाणिते, अपि च भारतः अल्प-व्यये उच्च-गुणवत्तायुक्ताः अन्तरिक्ष-सेवाः दातुं समर्थः अस्ति इति अपि प्रदर्शितम्।
पी.एस्.एल्.वी. (ध्रुवीय-उपग्रह-प्रक्षेपण-यानम्) पूर्वमेव स्वविश्वसनीयतायै प्रसिद्धम् आसीत्, अनेन अभियानने तस्य क्षमता अधिका दृढी कृता। अस्य उपलब्धेः अनन्तरं बहवः देशाः स्व-उपग्रह-प्रक्षेपणाय भारतस्य सेवासु रुचिं दर्शितवन्तः। एवं २८ अप्रैल २००८ दिनं भारतस्य अन्तरिक्ष-यात्रायां एकः मील-स्तम्भः अस्ति, येन देशः वैश्विक-अन्तरिक्ष-मानचित्रे नूतनां प्रतिष्ठां प्राप्तवान्।
महत्त्वपूर्णाः घटनाः
१९४५ — इटली-देशस्य देशभक्त-सैनिकैः तानाशाहः मुसोलिनी तस्य सहचारिणी च गुटिकाभिः हतौ।१९९९ — अमेरिकी-वैज्ञानिकः डॉ.रिचर्ड-सीड् एकवर्ष-अन्तरे मानव-क्लोन-निर्माणस्य घोषणां कृतवान्।१९९९ — विश्वे सहस्रशः संगणकानि ‘चेरनोबिल्-वायरस’ इत्यनेन निष्क्रियीकृतानि।२००१ — प्रथमः अन्तरिक्ष-पर्यटकः डेनिस्-टीटो अन्तरिक्ष-स्थानकं प्रति प्रस्थितः।२००२ — ‘बुकर-पुरस्कारः’ इत्यस्य नाम परिवर्तनं कृत्वा ‘मैन-बुकर-प्राइज्-फॉर-फिक्शन’ इति कृतम्।२००२ — पाकिस्तान-देशस्य सर्वोच्च-न्यायालयेन राष्ट्रपति-परवेज्-मुशर्रफस्य जनमत-संग्रहः वैधः इति निर्दिष्टः।२००४ — थाबो-मबेकी दक्षिण-अफ्रीका-देशस्य राष्ट्रपति-पदस्य शपथं स्वीकृतवान्।२००४ — थाइलैण्ड-देशे आरक्षक-चौकी-आक्रमणे १२२ जनाः मृताः।२००८ — इसरो संस्थया पी.एस्.एल्.वी.-सी९ द्वारा दश उपग्रहाः एकत्र प्रक्षिप्ताः।२००८ — मलेशिया-देशे भारतीय-मूलस्य दश सांसदाः पद-गोपनीयता-शपथं स्वीकृतवन्तः।२००८ — पाकिस्तान-देशस्य पूर्व-प्रधानमन्त्री बेनज़ीर-भुट्टो मरणोपरान्त ‘टिपरी-इण्टरनेशनल्-पुरस्कारः’ प्रदत्तः।
जन्म
१७९१ — हरिसिंह-नलवा — महाराज-रणजीतसिंहस्य सेनापतिः।१८९७ — ये-जियानयिंग — चीन-देशे सेना-प्रमुखः।१९२४ — केनेथ-कौण्डा — जाम्बिया-देशस्य प्रथमः राष्ट्रपति:।१९२९ — भानु-अथैया — भारतीय-चलच्चित्रेषु प्रसिद्धा वेश-रचनाकारिणी।१९४० — समीर-रंजन-बर्मन — भारतीय-राष्ट्रीय-काङ्ग्रेसस्य राजनीतिज्ञः।१९८१ — अनुप्रिया-पटेल — भारतस्य सांसद् तथा मन्त्रिणी।
निधनम्
१७१९ — फर्रुखसियर: — मुगल-वंशीयः शासकः।१७४० — बाजीराव-प्रथमः — मराठा-साम्राज्यस्य महान् सेनानायकः।१७४० — मस्तानी — बाजीरावस्य पत्नी।१९५५ — टी.वी.सुन्दरम्-अयंगर — भारतीय-उद्योगपति:।१९९२ — विनायक-कृष्ण-गोकाक — ज्ञानपीठ-पुरस्कार-प्राप्तः कन्नड-साहित्यकारः।२०२२ — सलीम-गौस — प्रसिद्धः अभिनेता।
महत्त्वपूर्णः अवसरः
राष्ट्रीय-बहादुर-दिवसः।
हिन्दुस्थान समाचार / अंशु गुप्ता