Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 27 अप्रैलमासः (हि.स.)। राज्यसभायां भारतीय जनता पार्टी इत्यस्य बलं अधिकं वर्धितम् अस्ति। आम आदमी पार्टी त्यक्त्वा भारतीय जनता पार्टी मध्ये सम्मिलिताः राघव चड्ढा सहिताः सप्त सांसदाः राज्यसभाध्यक्षेन सी. पी. राधाकृष्णन औपचारिकरूपेण अनुमोदिताः। अस्य परिणामस्वरूपं राज्यसभायां भारतीय जनता पार्टी सांसदानां संख्या १०६तः ११३ पर्यन्तं वर्धिता।
सोमवासरे राज्यसभा सचिवालयेन सदने सर्वेषां दलानां सांसदानाम् अद्यतनसूची प्रकाशिताऽभवत्, यस्मिन् एतेषां सप्त नेतॄणां नामानि भारतीय जनता पार्टी सांसदसूच्यां समाविष्टानि अभवन्। अनेन भारतीय जनता पार्टी उच्चसदने अधिकं राजनैतिकं सुदृढत्वं प्राप्तवती।
उल्लेखनीयम् अस्ति यत् २४ एप्रिल् दिने आम आदमी पार्टी त्यक्त्वा भारतीय जनता पार्टी मध्ये प्रविष्टेषु सांसदेषु राघव चड्ढा, अशोक कुमार मित्तल, हरभजन सिंह, संदीप कुमार पाठक, डॉ. विक्रमजीत सिंह साहनी, स्वाति मालीवाल तथा राजिंदर गुप्ता इत्येते समाविष्टाः सन्ति। एते सर्वे अधुना औपचारिकरूपेण भारतीय जनता पार्टी संसदीयदलस्य सदस्याः अभवन्।
केन्द्रीयसंसदीयकार्य मन्त्री किरण रिजिजू सोमवासरे सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र अस्य घटनाक्रमस्य पुष्टि कृत्वा उक्तवान् यत्— “राज्यसभाध्यक्षेन सी. पी. राधाकृष्णन आम आदमी पार्टी के सप्त सांसदानां भाजपा मध्ये विलयः स्वीकृतः। अधुना राघव चड्ढा, संदीप पाठक, अशोक मित्तल, हरभजन सिंह, स्वाति मालीवाल, राजिंदर गुप्ता तथा विक्रमजीत सिंह साहनी भाजपा संसदीयदलस्य सदस्याः सन्ति।”
रिजिजू महोदयः एतेषां सांसदानां कार्यशैलीम् अपि प्रशंसितवान्। सः अवदत् यत् दीर्घकालात् एतेषां सप्त सांसदानां वचनेषु कदापि अशिष्टभाषा न दृश्यते तथा न कदापि अनुशासनहीनं वा गैरसंसदीयं आचरणं कृतम्। एतत् सकारात्मकराजनीत्याः उदाहरणम् इति सः अभवत्।
सः अग्रे अपि उक्तवान् यत् नरेन्द्र मोदिनो नेतृत्वे राष्ट्रनिर्माणाय राष्ट्रियजनतांत्रिकगठबन्धने सर्वेषां स्वागतं क्रियते। तथा च विपक्षगठबन्धनं प्रति “टुकड़े-टुकड़े” इति उक्त्वा तस्मात् विमुखीकरणस्य अपि उल्लेखः कृतः।
राजनैतिकविश्लेषकानां मतानुसारं अस्य घटनाक्रमस्य प्रभावेण राज्यसभायां भारतीय जनता पार्टी स्थितिः अधिकं सुदृढा भविष्यति तथा आगामिषु विधेयकेषु रणनीतिकलाभः अपि प्राप्तुं शक्यते। विशेषतः यदा उच्चसदने संख्या बलं विधेयकानां पारणे निर्णायकं भवति, तदा एषः परिवर्तनः भारतीय जनता पार्टी कृते महत्त्वपूर्णः मन्यते।।---------------
हिन्दुस्थान समाचार