Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 अप्रैलमासः (हि.स.)।केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन गडकरी कर्नाटक-राज्ये ७,९२६ किलोमीटर-दीर्घानां राष्ट्रिय-राजमार्गाणां गुणवत्ता-रक्षण-कार्याणां च समीक्षा कृतवान्। एषा समीक्षा माध्यम-समाज-माध्यमयोः प्राप्त-प्रतिक्रिया-आधारेण कृता।
अत्र आयोजितायां अस्यां समीक्षासभायां केन्द्रीय-राज्यमन्त्री अजय टम्टा तथा हर्ष मल्होत्रा सह भारतीय राष्ट्रिय राजमार्ग प्राधिकरण (एनएचएआई), सड़क-परिवहन-राजमार्ग-मन्त्रालयस्य अधिकारीणः, परियोजना-संबद्धाः अधिकारीणः च उपस्थिताः आसन्।
सभायां गडकरी परियोजनानां समयबद्ध-कार्यान्वयनं, उच्च-गुणवत्ता-मानकानां पालनं, उन्नत-प्रौद्योगिकी-उपयोगं च प्रति विशेषं बलं दत्तवान्। सः अवदत् यत् राजमार्ग-अवसंरचनां स्थायिनीं प्रभाविनीं च कर्तुं आधुनिक-प्रौद्योगिकी-स्वीकारः अनिवार्यः अस्ति।
केन्द्रीय-मन्त्री अधिकारिभ्यः वर्षाकालात् (मान्सून-ऋतोः) पूर्वं सम्यक्-तैयारीं सुनिश्चितुं निर्देशान् अददात्। सः अवदत् यत् मार्ग-सुरक्षा, संरचनात्मक-दृढता, यातायातस्य निर्विघ्न-प्रवाहः च रक्षितुं पूर्वोपायाः दृढ-प्रतिक्रिया-तन्त्रं च विकसितव्यम्।
गडकरी उक्तवान् यत् राष्ट्रिय-राजमार्गाणां गुणवत्तायाः विषये किमपि समझौता न क्रियते, सर्वासु परियोजनासु निर्दिष्ट-मानकानां कठोरतया पालनं सुनिश्चितं करणी्यम्।
-------------
हिन्दुस्थान समाचार