Enter your Email Address to subscribe to our newsletters

रांची, 27 अप्रैलमासः (हि.स.)।
मुख्यमन्त्री हेमन्तसोरेनस्य समक्षे सोमवासरे झारखण्ड-मन्त्रालये पथ-निर्माण-विभागस्य अधिकारिणः सिरमटोलीतः कांटाटोलीपर्यन्तं संयोजयन्त्या: संयोजक-उड्डयन-सेतोः कार्यप्रगतेः सम्बन्धिनं पावर-पॉइण्ट्-प्रस्तुतीकरणं प्रस्तुतवन्तः।
मुख्यमन्त्री महोदयेन संयोजक-उड्डयन-सेतोः कार्यप्रगतिः बिन्दुवारं समीक्षिताऽस्ति तथा च अधिकारिभ्यः भूम्यर्जनसम्बद्धां क्रियाम् यथाशीघ्रं सम्पन्नां कृत्वा कार्यस्य वेगवर्धनाय निर्देशाः दत्ताः।
अस्मिन् अवसरे मुख्यमन्त्रिणा अधिकारिभिः सह प्रस्तावितस्य करमटोलीतः साइंस-सिटीपर्यन्तं चिरौंदी-उड्डयन-सेतुनिर्माण-योजनायाः विषये चर्चा कृता। अस्य सम्बन्धे मुख्यमन्त्री अधिकारिभ्यः अनेकान् महत्त्वपूर्णान् निर्देशान् अपि दत्तवान्।
अवसरे मुख्यमन्त्री अधिकारिभ्यः उक्तवान् यत् रांची-नगरस्य मार्गेषु ये ये विभाजकाः सन्ति, तेषु केचन अनावश्यक-छेदाः सन्ति, ते छेदाः निरुद्धाः क्रियन्ताम्। मुख्यमन्त्री उक्तवान् यत् रांची-निवासिनां कृते उत्तम-यातायात-व्यवस्था प्रदातुं राज्य-सरकारस्य प्रमुखा प्राथमिकता अस्ति।
अस्मिन् अवसरे पथ-निर्माण-विभागस्य प्रधान-सचिवः सुनील-कुमारः, अभियन्ता-प्रमुखः प्रवीण-जयन्त-भेंगरा, मुख्य-अभियन्ता (सीडीओ) विजय-रंजनः तथा उप-सचिवः प्रबन्धन-विभागस्य विक्रम-प्रताप-सिंहः इत्यादयः अन्येऽपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार