Enter your Email Address to subscribe to our newsletters

धनबाद-नगरम्, २७ अप्रैलमासः (हि.स.)। आईआईटी-आइएसएम संस्थाने सुरक्षा-कर्मचारिणां सेवाच्युत्या: विरोधे सुरक्षा-प्रहरी-कर्मचारी-संघः सोमवारवासरे जगजीवन-नगरस्थित-श्रम-कार्यालयस्य पुरतः एकदिवसीयं धरना-प्रदर्शनं कृत्वा आक्रोशं प्रकटितवान्।
संघस्य आरोपः अस्ति यत् संस्थाने वर्षाणां दीर्घकालं यावत् कार्यरताः सुरक्षा-कर्मचारिणः बिना कारणेन सेवातः निष्कासिताः, तथा च वर्दी-नाम्ना धनस्य अनियमित-वसूली अपि कृता। नवीनप्रतिनिधिना प्राय: ११० कर्मिणः लक्ष्यीकृत्य निष्कासिताः इति अपि संघेन उक्तम्।
संघेन पूर्वं प्रबन्धनेन सह वार्तायाः प्रयासः कृतः, किन्तु समाधानं न प्राप्तम्। अतः श्रम-विभागेऽपि शिकायत् दत्तम्, परन्तु अद्यापि कार्यवाही न अभवत्। संघेन संचेतना दत्ता यत् यदि शीघ्रं समाधानं न भवति तर्हि अनिश्चितकालीन-बुभूक्षा-विरोध: आरभ्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani