Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २७ अप्रैलनगरम् (हि.स.)।प्रधानमन्त्री-नरेन्द्रमोदिनः पूर्वोत्तर-राज्यस्य सिक्किमस्य द्विदिवसीयः दौरोऽद्य आरभ्यते। सः सिक्किम-प्रवासं समाप्य मङ्गलवासरे सायंकाले द्विदिवसीय-प्रवासार्थं उत्तरप्रदेशस्य वाराणसी-नगरं प्राप्स्यति। प्रधानमन्त्री सिक्किमे ४,००० कोटि-रूप्यकाधिक-मूल्यानां परियोजनानां शिलान्यासं उद्घाटनं च करिष्यति। सः स्वस्य संसदीय-क्षेत्रे वाराणस्यां ६,३५० कोटि-रूप्यकाधिक-मूल्यानां विकास-परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। एषा सूचना प्रधानमन्त्रीणः सिक्किम-प्रवासस्य आरम्भात् पूर्वं सर्वकारी-विज्ञप्तौ दत्ता।
विज्ञप्तेः अनुसारं प्रधानमन्त्री नरेन्द्रमोदी अद्य अपराह्णे प्रायः त्रिवादने गङ्गटोक-नगरं प्राप्स्यति। २८ अप्रैल-दिने प्रातः प्रायः ९:३० वादने प्रधानमन्त्री गङ्गटोकस्थितस्य ऑर्किडेरियम-उद्यानस्य दर्शनं करिष्यति। राज्यस्य पारिस्थितिक-पुष्प-परम्परां प्रदर्शयितुं स्वर्ण-जयंती-मैत्री-मञ्जरी-उद्यानं अत्याधुनिक-सुविधाभिः युक्तं विश्व-स्तरीयं ऑर्किड-अनुभव-केन्द्ररूपेण विकसितम् अस्ति।
ततः अनन्तरं प्रातः प्रायः १० वादने प्रधानमन्त्री पालजोर-स्टेडियम् मध्ये सिक्किम-राज्य-स्थापनायाः पञ्चाशत्तम-वर्षस्य समारोहस्य समापन-समारोहे भागं ग्रहीष्यति। अत्र सः राज्ये सर्वत्र ४,००० कोटि-रूप्यकाधिक-मूल्यानां विविध-विकास-परियोजनानां उद्घाटनं, शुभारम्भं शिलान्यासं च करिष्यति। प्रधानमन्त्री अस्मिन् अवसरे सभां सम्बोधयिष्यति। एताः परियोजनाः आधारभूत-संरचना, सम्पर्क, आरोग्य-सेवा, शिक्षा, विद्युत्, नगरीय-विकास, पर्यावरण, पर्यटन, कृषि इत्यादीनि क्षेत्राणि आवृत्य सिक्किमे समग्र-सम्मिलित-विकासं प्रवेगयितुं प्रायोजिताः सन्ति।
प्रधानमन्त्री नामची-जनपदे याङ्गाङ्ग-प्रदेशे १००-शय्या-युक्तस्य आयुर्वेद-चिकित्सालयस्य शिलान्यासं करिष्यति। सः एन.आइ.टी.-देवराली-स्थले ३०-शय्या-युक्तस्य समन्वित-सोवा-रिग्पा-चिकित्सालयस्य उद्घाटनं अपि करिष्यति, येन राज्ये पारम्परिक-समन्वित-चिकित्सा-प्रणालीषु सुलभता सुदृढा भविष्यति। प्रधानमन्त्री याङ्गाङ्गे सिक्किम-विश्वविद्यालयस्य स्थायी-परिसरस्य, चाकुङ्गे नेताजी-सुभाष-चन्द्र-बोस-उत्कृष्टता-विश्वविद्यालयस्य प्रशासनिक-खण्डस्य, गङ्गटोक-जनपदे सोचेयगाङ्ग-प्रदेशे हेलन-लेप्चा-चिकित्सा-महाविद्यालयस्य, ग्यालशिङ्ग-जनपदे डेन्टम्-प्रदेशे व्यावसायिक-महाविद्यालयस्य उद्घाटनं करिष्यति। सः ग्याथाङ्गे आदर्श-आवासीय-विद्यालयानां, मङ्गन-जनपदे मङ्गशिला-प्रदेशे नूतन-आदर्श-डिग्री-महाविद्यालयस्य, नामची-जनपदे बूमटार-गुम्फायां मठ-विद्यार्थिनां छात्रावास-सहित-कक्षायाः उद्घाटनं अपि करिष्यति। अपि च सः सिक्किमस्य १६० विद्यालयेषु सूचना-प्रौद्योगिकी-सक्षम-शैक्षिक-अवसंरचना-परियोजनानां कार्यान्वयनस्य आरम्भं करिष्यति।
संपर्क-सुधारणार्थं प्रधानमन्त्री सिरवानी-लोअर-समदोंग-प्रदेशयोः तीस्ता-नद्याः उपरि निर्मितयोः द्वयोः द्वि-पन्थान-इस्पात-सेतो: शिलान्यासं करिष्यति, ये नामची-गङ्गटोक-जनपदयोः संयोजनं करिष्यतः। सः किचुदुमरा-मार्गेण बिरधाङ्गात् नामची-पर्यन्तं मार्गस्य विस्तारणं सुदृढीकरणं च उद्घाटयिष्यति, येन अन्तर-जनपद-संपर्कः वर्धिष्यते, यात्रायाः कार्यक्षमता सुधारिष्यते, जनानां वस्तूनां च सुगम-गमनागमनं सुनिश्चितं भविष्यति।विद्युत्-क्षेत्रे प्रधानमन्त्री गङ्गटोक-नगरे पारेषण-वितरण-जालस्य उन्नयन-नवीनीकरणस्य उद्घाटनं करिष्यति, येन विश्वसनीय-विद्युत्-आपूर्तिः सुदृढा भविष्यति। नगरीय-विकास-प्रशासन-क्षेत्रयोः सः लुम्से-प्रदेशे जन-सेवा-सचिवालयस्य तथा गङ्गटोक-नगरे सिविल-सेवा-अधिकारी-संस्थानस्य उद्घाटनं करिष्यति। सः लिङ्गडिङ्ग-प्रदेशे नगरीय-दरिद्र-आवास-योजनायाः, पुलिस-कर्मचारिणां निवासानां, एस.ए.पी.-पाङ्गथाङ्ग-प्रदेशे ग्रेड-सी-निवासानां उद्घाटनं अपि करिष्यति। तदनन्तरं एम.जी.-मार्गे सद्भाव-मण्डपस्य शिलान्यासं करिष्यति।
पर्यावरण-संरक्षणस्य अन्तर्गतं प्रधानमन्त्री सिङ्गताम्-नगरे नदी-प्रदूषण-नियन्त्रण-योजनायाः अन्तर्गतं मल-निस्सारण-प्रणाल्याः पुनर्निर्माणस्य शिलान्यासं करिष्यति। सः गङ्गटोकस्य तृतीय-क्षेत्रे रोरो-चू-नद्याः माध्यमेन रानी-चू-नद्याः प्रदूषण-नियन्त्रण-योजनायाः उद्घाटनं अपि करिष्यति, येन नगरीय-स्वच्छता स्थायित्वयुक्त-पर्यावरण-तन्त्रं च सुदृढं भविष्यति।पर्यटन-तीर्थ-क्षेत्रयोः प्रधानमन्त्री गङ्गटोक-नगरे रिज-प्रिसिंक्ट-क्षेत्रस्य पुनर्विकासस्य, सोरेङ्ग-प्रदेशे डोडक-स्थले पर्यावरण-पर्यटन-तीर्थ-अवसंरचनायाः, कैलाश-मानसरोवर-यात्रा-संबद्ध-अवसंरचनायाः तथा नामफिङ्ग-प्रदेशे कृष्ण-प्रणामी-मङ्गलधाम-स्थले यात्रिणां निवासस्य उद्घाटनं करिष्यति। सः ग्यालशिङ्ग-जनपदे सिलनोन-प्रदेशे पर्यावरण-तीर्थ-समुच्चयस्य शिलान्यासं करिष्यति।
कृषि-क्षेत्रे प्रधानमन्त्री सिक्किमे इफ्को-प्रसंस्करण-कारखानस्य उद्घाटनं करिष्यति, येन कृषकाणां जीविका-मूल्य-शृङ्खला च सुदृढा भविष्यति। युवा-सहभागिता-क्रीडा-विकासयोः प्रवर्धनार्थं सः पाक्योंग-जनपदे माइनिङ्ग-रङ्गपो-प्रदेशे आन्तरिक-क्रिकेट-सुविधानां उद्घाटनं करिष्यति। एषः प्रवास: सिक्किमस्य राज्य-स्वर्ण-जयंती-वर्षे महत्त्वपूर्णः मील-स्तम्भः अस्ति तथा पूर्वोत्तर-क्षेत्रस्य तीव्र-सतत-विकासे सरकारस्य प्रतिबद्धतां दर्शयति।
सर्वकारी-प्रवक्तुः अनुसारं प्रधानमन्त्री २८ अप्रैल-दिने सायं प्रायः ५ वादने वाराणस्यां महिला-सम्मेलने भागं ग्रहीष्यति, यत्र सः ६,३५० कोटि-रूप्यक-परिमितानां परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति तथा सभां सम्बोधयिष्यति। २९ अप्रैल-दिने प्रातः ८:३० वादने सः श्रीकाशीविश्वनाथ-मन्दिरे दर्शन-पूजनं करिष्यति। ततः अनन्तरं सः हरदोई-नगरं प्रति प्रस्थित्य प्रायः ११:३० वादने गङ्गा-एक्सप्रेस-वे-मार्गस्य उद्घाटनं करिष्यति तथा सभां सम्बोधयिष्यति।
वाराणस्यां प्रधानमन्त्री १,०५० कोटि-रूप्यकाधिक-मूल्यानां ४८ पूर्ण-परियोजनाः राष्ट्राय समर्पयिष्यति। तासु वाराणसी-आजमगढ़-मार्ग-विस्तारणं, कज्जाकपुरा-कादीपुर-प्रदेशयोः रेल-उपरिसेतु-उद्घाटनं, भगवानपुरे ५५ एम्.एल्.डी.-क्षमता-युक्तस्य मल-शोधन-केन्द्रस्य उद्घाटनं च प्रमुखम् अस्ति।
सः जल-जीवन-अभियानस्य अन्तर्गतं ३० ग्राम्य-पेय-जल-योजनाः, चन्द्रावती-घाट-पुनर्विकासः, सारनाथ-समीपे सारंगनाथ-मन्दिरस्य पर्यटन-विकासः, नागवा-प्रदेशे सन्त-रविदास-उद्यानस्य सौन्दर्यीकरणं च उद्घाटयिष्यति। सार्वजनिक-सेवाः क्रीडा-क्षेत्रे च सुधारार्थं यूपी-कॉलेजे कृत्रिम-हॉकी-भूमिः, रामनगरे १००-शय्या-युक्तः वृद्धाश्रमः, भेलूपुरे जल-शोधन-केन्द्रे १ मेगावाट-सौर-ऊर्जा-यन्त्रं च उद्घाटयिष्यति। सः केन्द्रीय-तिब्बती-अध्ययन-विश्वविद्यालये सोवा-रिग्पा-भवनं चिकित्सालयं च उद्घाटयिष्यति।
प्रधानमन्त्री ५,३०० कोटि-रूप्यकाधिक-मूल्यानां ११२ परियोजनानां शिलान्यासं करिष्यति। तासु अमृत २.०-योजनायाः अन्तर्गताः १३ मल-निस्सारण-जल-आपूर्ति-योजनाः, ५००-शय्या-युक्तः बहु-विशेषज्ञ-चिकित्सालयः, भोजुवीर-सिगरा-प्रदेशयोः बाजार-परिसर-निर्माणं, तडागानां पुनर्निर्माणं, १९८-शय्या-युक्त-चिकित्सालयस्य पुनर्निर्माणं, १००-शय्या-युक्त-गहन-चिकित्सा-खण्ड-निर्माणं, अस्सी-दशाश्वमेध-नमो-घाटेषु पर्यटन-सुविधानां विकासः च अन्तर्भवन्ति।
सः रामनगरे एकीकृत-कार्यालय-भवनं, नगर-निगम-कार्यालयं, बाल-आश्रय-गृहं किशोर-न्याय-बोर्डं च स्थापयिष्यति। प्रधानमन्त्री उत्तरप्रदेशस्य दुग्ध-आपूर्तिकर्तृभ्यः १०५ कोटि-रूप्यकाधिकं धनं बोनस-रूपेण हस्तान्तरणं करिष्यति।
प्रधानमन्त्री वाराणसी-पण्डित-दीनदयाल-उपाध्याय-जङ्क्शन-रेलमार्गस्य तृतीय-चतुर्थ-पन्थान-परियोजनायाः शिलान्यासं करिष्यति, यत्र गङ्गा-नद्याः उपरि रेल-सह-मार्ग-सेतु-निर्माणं अपि अन्तर्भवति।
सः द्वे नूतने अमृत-भारत-एक्सप्रेस-रेलयान-सेवे उद्घाटयिष्यति— बनारस-पुणे तथा अयोध्या-मुम्बई। एतेन सम्पर्कः वर्धिष्यते।
प्रधानमन्त्री हरदोई-जनपदे गङ्गा-एक्सप्रेस-वे-मार्गस्य उद्घाटनं करिष्यति। अयं ५९४ कि.मी.-दीर्घः षट्-पन्थान-युक्तः (अष्ट-पन्थान-पर्यन्तं विस्तार-योग्यः) उच्च-वेग-मार्गः अस्ति, यस्य निर्माणं ३६,२३० कोटि-रूप्यकैः कृतम्। अयं १२ जनपदान् संयोजयति— मेरठ, बुलन्दशहर, हापुड़, अमरोहा, सम्भल, बदायूँ, शाहजहाँपुर, हरदोई, उन्नाव, रायबरेली, प्रतापगढ़, प्रयागराज-नगराणि।
अनया परियोजनया मेरठ-प्रयागराज-योः यात्राकालः १०-१२ घण्टाभ्यः न्यूनीकृत्य प्रायः ६ घण्टाः भविष्यति। शाहजहाँपुर-जनपदे ३.५ कि.मी.-दीर्घा आपत्कालीन-उड्डयन-पट्टिका अस्य विशेषता अस्ति।
गङ्गा-एक्सप्रेस-वे प्रमुखः आर्थिक-गलियारा भविष्यति, यस्य मार्गे २,६३५ हेक्तेयर-क्षेत्रे औद्योगिक-लॉजिस्टिक-परिसराः विकसिताः भविष्यन्ति। अनेन लॉजिस्टिक-व्ययः न्यूनीभविष्यति, आपूर्ति-शृङ्खला-सामर्थ्यं वर्धिष्यते, विनिर्माण-प्रतिस्पर्धा च प्रोत्साहिता भविष्यति।
उत्तम-संपर्केण कृषकाः नगरीय-निर्यात-विपणान् प्रति प्रत्यक्ष-प्रवेशं प्राप्स्यन्ति, येन तेषां आयः वर्धिष्यते। पर्यटन-विकासः, नूतन-आर्थिक-अवसराः, रोजगार-सृजनं च भविष्यति। अयं मार्गः राज्यस्य व्यापक-एक्सप्रेस-वे-जालस्य मेरुदण्डरूपेण कार्यं करिष्यति तथा समग्र-आर्थिक-विकासं प्रवेगयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता