Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 27 अप्रैलमासः (हि.स.)।
भारतीय दूरसंचार नियामक प्राधिकरणसंस्थया देशे सार्वजनिक-वाई-फाई-जालस्य प्रसारं विषयीकृत्य परामर्श-पत्रं प्रकाशितं कृत्वा २५ मे पर्यन्तं जनात् सुझावाः याचिताः।
ट्राई इत्यस्य अनुसारम् अस्मिन् पत्रे वर्तमान-नियामक-ढाँचस्य समीक्षा कृता अस्ति, सार्वजनिक-वाई-फाई-जालस्य विस्तारस्य मार्गे विद्यमानाः बाधाः चिन्हिताः, तथा च देशव्यापि वाई-फाई-अवसंरचनायाः तीव्र-वृद्धये उपायेषु हितधारकानां सुझावाः अपेक्षिताः। जनान् प्रति २५ मे पर्यन्तं लिखित-टिप्पण्यः, तथा ८ जून् २०२६ पर्यन्तं प्रत्युत्तर-टिप्पण्यः दातुं सूचितम्।
अस्मिन् पत्रे प्राधिकरण-प्रणाली, प्रमाणीकरण-प्रक्रिया, रोमिंग्-व्यवस्था, बिलिंग्-प्रणाली इत्यादिषु सम्बद्धाः समस्याः तथा राजस्व-आदर्शस्य विश्लेषणं कृतम्, येन सार्वजनिक-वाई-फाई-जालं दीर्घकालं स्थायि-रूपेण स्थापयितुं शक्यते।
परामर्श-पत्रे अन्येषां देशानां सार्वजनिक-वाई-फाई-तन्त्रस्य अवलोकनं, भारतस्य वर्तमान-स्थिति, तैनाती-प्रवृत्तयः, माग-प्ररूपस्य (डिमाण्ड्-पैटर्नस्य) मूल्याङ्कनं च समाविष्टम्। अस्मिन् प्रमुखाः आव्हानाः, अतिसंकुल-स्थलानि, ग्राम्य-प्रदेशाः, नागर-केन्द्राणि च विषयीकृत्य सार्वजनिक-वाई-फाई-आदर्श-विकासे केन्द्र-राज्य-सरकारयोः, स्थानीय-निकायानां, दूरसंचार-सेवा-प्रदातॄणां, निजी-संस्थाः च भूमिकाः अपि विचारिताः।
-------------
हिन्दुस्थान समाचार