गंगासागरे स्नानं कृत्वा कोलकातां प्राप्नोत् अमित शाहः, समाननागरिकसंहितायाः आवश्यकतां प्रत्यददात् बलम्
कोलकाता, 27 अप्रैलमासः (हि.स.)।पश्चिम बंगाल-विधानसभा-निर्वाचनस्य द्वितीय-चरणस्य प्रचारस्य अन्तिम-दिने सोमवासरे केन्द्रीय-गृहमन्त्री अमित शाह धार्मिक-आस्थया सह राजनैतिक-कार्यक्रमैः स्वदिनस्य आरम्भं कृतवान्। प्रातःकाले सः गंगासागर आगत्य सागरे स्नानं
अमित शाह की सभा


कोलकाता, 27 अप्रैलमासः (हि.स.)।पश्चिम बंगाल-विधानसभा-निर्वाचनस्य द्वितीय-चरणस्य प्रचारस्य अन्तिम-दिने सोमवासरे केन्द्रीय-गृहमन्त्री अमित शाह धार्मिक-आस्थया सह राजनैतिक-कार्यक्रमैः स्वदिनस्य आरम्भं कृतवान्। प्रातःकाले सः गंगासागर आगत्य सागरे स्नानं कृत्वा कपिल मुनि आश्रम पूजां कृतवान्, तथा देशस्य राज्यस्य च सुख-समृद्धये प्रार्थनाम् अकरोत्।

अनन्तरं अमित शाह कोलकाता नगरीं गतवान्, यत्र सः बेहाला-पश्चिम-विधानसभा-क्षेत्रे भारतीय जनता पार्टी प्रत्याशिनः इन्द्रनील-खान् समर्थनार्थं विशालं मार्ग-प्रदर्शनं कृतवान्। अस्मिन् अवसरे बहवः दल-कार्यकर्तारः, समर्थकाः, स्थानिक-जनाः च उपस्थिताः आसन्।

अस्मिन् सन्दर्भे अमित शाह पश्चिम बंगाल-राज्ये भारतीय जनता पार्टी विजयम् प्रति विश्वासं व्यक्तवान्, तथा च उक्तवान् यत् राज्ये तस्याः सरकारः स्थाप्यते। सः समान-नागरिक-संहितायाः प्रवर्तनस्य आवश्यकतां प्रतिपाद्य अवदत् यत् देशे सर्वेषां नागरिकानां कृते एकः समानः नियमः भवेत्, तथा च बहुविवाह-प्रथा अपि समाप्ता भवेत्।

अमित शाह अवदत् यत् अधुना पर्यन्तं निर्वाचन-प्रक्रियायां काचित् महती हिंसा न दृष्टा, मतदानं च शान्तिपूर्वकं प्रवर्तते। सः विश्वासं व्यक्तवान् यत् आगामिषु कालेषु राज्यस्य जनाः भारतीय जनता पार्टी सत्तां प्रदास्यन्ति।

उल्लेखनीयम् यत् राज्ये द्वितीय-चरणस्य मतदानं बुधवासरे भविष्यति, तथा च सोमवासरस्य सायं प्रचारः समाप्तः भविष्यति।

--------------------

हिन्दुस्थान समाचार