Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २८ अप्रैलमासः (हि.स.)। वाराणसी-नगरे द्विदिनात्मक-प्रवासे आगच्छतः भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदी-महाभागस्य स्वागतार्थम् उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः ‘एक्स’-माध्यमे सन्देशं लिखितवान्।
मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् अविनाशी काशी अद्य विकासस्य नूतन-अध्यायस्य साक्षिणी भविष्यति। प्रधानमन्त्रिणः नरेन्द्रमोदी-महाभागस्य कर-कमलैः विविध-लोक-कल्याणकारी-परियोजनानां लोकार्पणम् तथा शिलान्यासः समग्रस्य पूर्वाञ्चल-प्रदेशस्य भविष्याय नूतनां दिशां प्रदास्यति। मातृशक्ति-सशक्तीकरणाय समर्पिते ‘महिला-सम्मेलने’ तस्य अमूल्यं पाथेयम् अस्मभ्यं सर्वेभ्यः प्राप्स्यते।
तथा च बनारस-डेयरी-संस्थायाः ३,२१,८१३ दुग्ध-उत्पादकेभ्यः बोनस-राशेः हस्तान्तरणम्, बनारस-पुणे तथा अयोध्या-मुम्बई-नगरयोः संयोजयन्त्याः ‘अमृत-भारत-एक्सप्रेस’-नाम्न्याः रेलयानयोः शुभारम्भः च आस्था-अर्थव्यवस्थयोः गतिं वर्धयिष्यति। उत्तरप्रदेशस्य पञ्चविंशति-कोटि-नागरिकाणां पक्षतः बाबा-विश्वनाथस्य नगरे भवतः हार्दिकं स्वागतं प्रधानमन्त्रिन् महोदय।
हिन्दुस्थान समाचार / अंशु गुप्ता