जनपद-स्तरीय-विकास-कार्य-अनुश्रवण-समितिः' इदानीं 'दृष्टिः' इति नाम्ना ज्ञास्यते
लखनऊ, 28 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्रिणः केशव प्रसाद मौर्यस्य निर्देशानुसारं उत्तरप्रदेशशासनेन सम्यक् विचारोपरान्तं ''मण्डल-स्तरीय-विकास-कार्य-अनुश्रवण-समितिः'' इत्यस्याः नाम परिवर्तनं कृत्वा ''दृष्टिः'' इति कृतम्। एतदतिरिच
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ, 28 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्रिणः केशव प्रसाद मौर्यस्य निर्देशानुसारं उत्तरप्रदेशशासनेन सम्यक् विचारोपरान्तं 'मण्डल-स्तरीय-विकास-कार्य-अनुश्रवण-समितिः' इत्यस्याः नाम परिवर्तनं कृत्वा 'दृष्टिः' इति कृतम्। एतदतिरिच्य, ०१ जुलाई २०२५ दिनाङ्कस्य शासनादेशस्य अवशिष्टाः सर्वे प्रावधानाः पूर्ववत् (यथावत्) एव स्थास्यन्ति।

​अस्मिन् सन्दर्भे आवश्यकः शासनादेशः उत्तरप्रदेशशासनस्य ग्राम्यविकासविभागेन निर्गतः अस्ति। अस्य शासनादेशस्य प्रतिलिपिः सर्वेभ्यः मुख्यविकासाधिकारिभ्यः प्रेषिता वर्तते।

हिन्दुस्थान समाचार