Enter your Email Address to subscribe to our newsletters

महासमुंदम्, 28 अप्रैलमासः (हि.स.)।संग्राहकः विनयकुमारलङ्गेहः राजस्वपुस्तकपरिपत्रस्य 6-4 अन्तर्गतं प्राकृतिकआपदया मृतानां पञ्चजनानां निकटतमवारिसानां कृते प्रति जनं चतुर्लक्षरूप्यकाणां प्रमाणेन कुलं विंशतिलक्षरूप्यकाणां आर्थिकसहायतराशिम् अनुमोदितवान्।
प्रशासनेन निर्गतस्वीकृतराश्यानुसारं जले निमज्जनात् मृत्युः अभवत् इति कारणेन महासमुन्दविकासखण्डस्य अन्तर्गतस्य सिंहिग्रामस्य मृतकस्य द्रोणनिषादस्य पितुः मदननिषादस्य कृते, मृतकस्य दुष्यतनिषादस्य पितुः डगेश्वरनिषादस्य कृते, तथा पिथौराविकासखण्डस्य अन्तर्गतस्य अरण्डग्रामस्य मृतकस्य कुमारसिंहमरकामस्य पत्नी अहिल्याबाईध्रुवायै आर्थिकसहायतराशिः अनुमोदिता।
तथैव विद्युत्तारस्पर्शेन मृत्युः अभवत् इति कारणेन सरायपालीविकासखण्डस्य लिमउगुडाग्रामस्य मृतकस्य सेतलालसावस्य पत्नी बालमतीसावायै, तथा आकाशीयविद्युत्पातेन मृत्युः अभवत् इति कारणेन पिथौराविकासखण्डस्य सुखीपालीग्रामस्य मृतकस्य तीर्थराजभोयस्य पत्नी हेमकुमारीभोयायै प्रति जनं चतुर्लक्षरूप्यकाणां आर्थिकसहायतराशिः अनुमोदिता।
---------------
हिन्दुस्थान समाचार