उपमुख्यमन्त्रिणः विजय-शर्मणः विशेष-प्रयत्नैः इक्षु-कृषकेभ्यः १३.८०-कोटि-रूप्यकाणि वितरितानि
रायपुरनगरम्, २८ अप्रैलमासः (हि.स.)। विवाह-ऋतौ अग्रिम-सस्य-सज्जतायाः च मध्ये इक्षु-कृषकाणां कृते सुखद-वार्ता प्रकाशिता। उपमुख्यमन्त्रिणः विजय-शर्मणः विशेष-प्रयत्नैः भोरमदेव-सहकारी-शर्करा-उत्पादक-निर्माण्या, राम्हेपुरे (कवर्धा), कृषकेभ्यः १३.८०-कोटि-
भोरमदेव सहकारी शक्कर उत्पादक कारखाना


रायपुरनगरम्, २८ अप्रैलमासः (हि.स.)। विवाह-ऋतौ अग्रिम-सस्य-सज्जतायाः च मध्ये इक्षु-कृषकाणां कृते सुखद-वार्ता प्रकाशिता। उपमुख्यमन्त्रिणः विजय-शर्मणः विशेष-प्रयत्नैः भोरमदेव-सहकारी-शर्करा-उत्पादक-निर्माण्या, राम्हेपुरे (कवर्धा), कृषकेभ्यः १३.८०-कोटि-रूप्यकाणां राशि: वितरिता। अस्मिन् पेराई-सत्रे अद्यपर्यन्तं समग्रतया ७१.२९-कोटि-रूप्यकाणां भुगतानं कृषकेभ्यः कृतम् अस्ति।

जनपदाधिकारी तथा निर्माण्या: प्राधिकृत-अधिकारी गोपाल-वर्मणः मार्गदर्शनेन भुगतान-प्रक्रिया निरन्तरं प्रवर्तते। समयबद्ध-प्रदानेन सहकारी-व्यवस्थायां कृषकाणां विश्वासः अधिकं सुदृढः अभवत्। अस्मिन् पेराई-सत्रे कारखानेन २,५५,८१८ मेट्रिक-टन-परिमितः इक्षु-पेषणः तथा ३,०९,१२० क्विण्टल-परिमिता शर्करा-उत्पादनं कृतम्, यत् कृषक-सहयोगस्य प्रशासनिक-मार्गदर्शनस्य च सस्यम् अस्ति।

भोरमदेव-शर्करा-निर्माणी कृषक-श्रमिकयोः हिताय निरन्तरं कार्यं करोति। अत्र एफआरपी-परिश्रमिकात् अतिरिक्तं रिकवरी-आधारित-प्रदानम्, शासन-प्रदत्त-बोनस-वितरणम्, न्यून-दरेण शर्करा-प्रदानम्, उन्नत-बीजानां वितरणम्, कृषि-मार्गदर्शनम् तथा नियमित-प्रशिक्षण-कार्यक्रमाः अपि सञ्चालिताः सन्ति। सामाजिक-उत्तरदायित्वस्य अन्तर्गतं कृषकाणां कृते ‘बलराम-सदनम्’ नाम सर्वसुविधायुक्त-आवासः तथा अल्प-मूल्ये (५ रूप्यक-परिमिते) उष्ण-भोजन-सुविधा अपि प्रदत्ता।

इयं निर्माणी जनपदस्य अर्थव्यवस्थायाः दृढ-आधाररूपेण उद्भूतः। सः कृषकेभ्यः न्यूनतम-मूल्य-गारण्टीति, सस्य-विविधीकरणस्य प्रोत्साहनम्, सहस्रशः जनानां रोजगार-प्रदानम् तथा सार्वजनिक-वितरण-प्रणाल्यै (पीडीएस) सुलभ-दरेण शर्करा-उपलब्धिं च सुनिश्चितयति। समयोचित-भुगतानम्, उत्तम-प्रबन्धनम् तथा कृषक-केंद्रित-योजनानां कारणात् अयं कारखानः सहकारी-प्रणाल्याः सफलतायाः उत्कृष्टम् उदाहरणं जातः, येन कृषकाणां आर्थिक-स्थिति सुदृढा भूत्वा जनपदस्य समग्र-विकासः अपि वेगं प्राप्नोति।

हिन्दुस्थान समाचार / अंशु गुप्ता